________________
६४५
सू० ६।६२-७३] जय-पराजयव्यवस्था
प्रमाणफलयोस्तद्व्यवहारान्यथानुपपत्तरिति प्रेक्षादः प्रतिपत्तव्यम्।
अस्तु तर्हि सर्वथा तयोर्भेद इत्याशङ्कापनोदार्थमाहभेदे त्वात्मान्तरवत्तदनुपपत्तिः (तेः) ॥ ७१ ॥
समवायेऽतिप्रसङ्गः ॥ ७२ ॥ . इत्यप्युक्तं तत्रैव।
अथेदानी प्रतिपन्नप्रमाणतदाभासखरूपाणां विनेयानां प्रमाणतदाभासावित्यादिना फलमादर्शयतिप्रमाण-तदाभासौ दुष्टतयोद्भावितौ परिहृता-परिहृतदोषौ वादिनः साधन-तदाभासौ प्रतिवा- १०
दिनो दूषण-भूषणे च ॥ ७३॥ प्रतिपादितस्वरूपौ हि प्रमाणतदाभासौ यथावत्प्रतिपन्नाप्रेतिपन्नखरूपी जयेतरव्यवस्थाया निबन्धनं भवतः । तथाहि-चतुर ङ्गवादमुररीकृत्य विज्ञातप्रमाणतदाभासस्वरूपेण वादिना सम्यकप्रमाणे स्वपक्षसाधनायोपन्यस्ते अविज्ञाततत्स्वरूपेण तु तदा-१५ मासे । प्रतिवादिना वाऽनिश्चिततत्स्वरूपेण दुष्टतया सम्यक्प्रमाणेपि तदाभासतोद्भाविता । निश्चिततत्स्वरूपेण तु तदाभासे तदामासतोद्भाविता । एवं तो प्रमाणतदाभासौ दुष्टतयोद्भावितो परिहृतापरिहृतदोषौ वादिनः साधनतदाभासौ प्रतिवादिनो दूषणभूषणे च भवतः।
ननु चतुरङ्गवादमुररीकृत्येत्याधयुक्तर्मुक्तम् ; वादस्याविजिगीपुविषयत्वेन चतुरङ्गत्वासम्भवात् । न खलु वादो विजिगीषतोर्वतते तत्त्वाध्यवसायसंरक्षणार्थरहितत्वात् । यस्तु विजिगीषतोर्नासौ तथा सिद्धः यथा जल्पो वितण्डा च, तथा च वादः,
२०
१ वास्तवभेदाभावे । २ वादिना प्रतिपन्नाप्रतिपन्नस्वरूपौ प्रतिवादिनापि तथेत्यर्थः । ३ सभ्यसभापतिवादिप्रतिवादीति चत्वार्यङ्गानि यस्य स तथोक्तः । ४ अन्यवादिना। ५ उपन्यस्ते। ६ अन्यप्रतिवादिना । ७ प्रतिवादिना। ८ वादिनेति शेषः। ९ स्वपक्षस्य । १. योगः प्राह । ११ जैनैः। १२ वीतरागकथा वादो यौगमते यतः। १३ जयेच्छाऽभावात्तेषां सम्यादीनां प्रयोजनाभावो वादे इति भावः । १४ जल्पो वितण्डा च विजिगीषतोरतो न वादरूपः, व्यतिरेकी दृष्टान्तः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org