SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ ६४४ प्रमेयकमलमार्त्तण्डे [५. तदाभासपरि० तथाऽप्रतिभासनात् कार्याऽकरणाच्च ॥ ६२ ॥ स ह्येवंविधोर्थः स्वयमसमर्थः समर्थो वा कार्य कुर्यात् ? न तावत्प्रथमः पक्षः; स्वयमसमर्थस्याऽकारकत्वात्पूर्ववत् ॥ ६३ ॥ ५ एतश्च सर्व विषयपरिच्छेदे विस्तारतोभिहितमिति नेहाभि धीयते । १० नापि द्वितीयः पक्षः; समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षत्वात् ॥ ६४ ॥ परापेक्षणे परिणामित्वमन्यथा तदभावादिति ॥ ६५ ॥ अथेदानीं फलाभासं प्ररूपयन्नाह फलाभासं प्रमाणादभिन्नं भिन्नमेव वा ॥ ६६ ॥ कुतोस्य फलाभासतेत्याह अभेदे तयवहारानुपपत्तेः ॥ ६७ ॥ १५ न खलु सर्वथा तयोरभेदे 'इदं प्रमाणमिदं फलम्' इति व्यव हारः शक्यः प्रवर्त्तयितुम् । ननु व्यावृत्त्या तयोः कल्पना भविष्यतीत्याह व्यावृत्त्यापि न तत्कल्पना फैलान्तराद्वयावृत्त्याs फलत्वप्रसङ्गात् ॥ ६८ ॥ २० प्रमाणान्तराद्वद्यावृत्तौ वाऽप्रमाणत्वस्येति ॥ ६९ ॥ एतच्च फलपरीक्षायां प्रपञ्चितमिति पुनर्नेह प्रपश्यते । तस्माद्वास्तवो भेदः ॥ ७० ॥ १ केवल सामान्यतया केवल विशेषतया द्वयस्य स्वतन्त्रतया वा । २ केवलसामान्यरूपः केवलविशेषरूपश्च । ३ पश्चादपि । ४ परस्य । ५ अनपेक्षाकार परित्यागेनापेक्षाकारेण परिणमनात् । ६ सर्वथा । ७ तयोः प्रमाणफलयोः । ८ अफलाद्वयावृत्तिः यथा तथा फलान्तराद्वियावृत्त्या भाव्यम्, तथा सति फलान्तराद्र्यावृत्तिः फलविशेषाद्वधावृत्तिरित्यर्थः, अफलत्वप्रसङ्गः गोर्व्यावृत्त्याऽगोत्वं भवति यथा । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy