________________
सू० ६५१-६१] संख्याभासविचारः
६४३ अमुमेवार्थ समर्थयमानः सौगतादिपरिकल्पितां च संख्यां निराकुर्वाणः सौगतेत्याद्याहसौगतसांख्ययोगप्राभाकरजैमिनीयानां प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावैः एकैकाधिकैः
व्यातिवत् ॥ ५७॥ यथैव हि सौगतसांख्ययोगप्राभाकरजैमिनीयानां मते प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावैः प्रमाणैरेकैकाधिकैाप्तिन सिध्यत्यतद्विषयत्वात् तथा प्रकृतमपि । प्रयोगः-यद्यस्याऽविषयो न ततस्तत्सिद्धिः यथा प्रत्यक्षानुमानाद्यविषयो व्याप्तिर्न ततः सिद्धिसौधशिखरमारोहति, अविषयश्च परलोकनिषेधादिः प्रत्यक्षस्येति। १०
मा भूत्प्रत्यक्षस्य तद्विषयत्वमनुमानादेस्तु भविष्यतीत्याहअनुमानादेस्तद्विषयत्वे प्रमाणान्तरत्वम् ॥ ५८॥ चार्वाकं प्रति । सौगतादीन्प्रतितर्कस्येव व्याप्तिगोचरत्वे प्रमाणान्तरत्वम्
अप्रमाणस्य अव्यवस्थापकत्वात् ॥ ५९॥ १५ कुत एतदित्याह अप्रमाणस्याव्यवस्थापकत्वात्। प्रतिभासादिभेदस्य च भेदकत्वादिति ॥ ६॥
प्रतिपादितश्चायं प्रतिभासभेदः सामग्रीभेदश्चाध्यक्षादीनां प्रपश्वतस्तद्वेधेत्यत्रेत्युपरम्यते । अथेदानीं विषयाभासप्ररूपणार्थ विषयेत्याधुपक्रमते- २० विषयाभासः सामान्यं विशेषो द्वयं वा
स्वतन्त्रम् ॥ ६१॥ विषयाभासाः-सामान्यं यथा सत्ताद्वैतवादिनः। केवलं विशेषो वा यथा सौगतस्य । द्वयं वा स्वतन्त्रं यथा योगस्य । कुतोस्य विषयाभासतेत्याह.. १ अनुमानस्य । २ परलोकनिषेधादेः । ३ अस्तु प्रामाण्यमनुमानस्य किन्तु तत्प्रत्यक्षे एवान्तर्भविष्यतीत्युक्ते सत्याह । ४ ततः प्रत्यक्षेऽनुमानस्यान्तर्भावाभाव इत्यर्थः । ५ अन्योन्यनिरपेक्षम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org