SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ ६४२ . अथेदानीमागमाभासप्ररूपणार्थमाह प्रमेयकमलमार्त्तण्डे [५. तदाभासपरि रागद्वेषमोहाक्रान्तपुरुषवचनाज्जातमा गमाभासम् ॥ ५१ ॥ रागाक्रान्तो हि पुरुषः क्रीडावशीकृतचित्तो विनोदार्थ वैस्तु ५ किञ्चिदप्राशुवन्माणवकैरपि सह क्रीडाभिलाषेणेदं वाक्यमुच्चार यति - यथा नद्यास्तीरे मोदकराशयः सन्ति धावध्वं माणवका इति ॥ ५२ ॥ तथा कचित्कार्ये व्यासक्तचित्तो माणवकैः कदर्थितो द्वेषाक्रा१० न्तोप्यात्मीयस्थानात्तदुच्चाटनाभिलाषेणेदमेव वाक्यमुच्चारयति । मोहाक्रान्तस्तु सांख्यादिः - अङ्गुल्य हस्तियूथशतमास्ते इति च ॥ ५३ ॥ उच्चारयति । न खल्वज्ञानमहामहीधराक्रान्तः पुरुषो यथावद्वस्तु विवेचयितुं समर्थः । १५ ननु चैवंविधपुरुषवचनोद्भूतं ज्ञानं कस्मादागमाभासमित्याहविसंवादात् ॥ ५४ ॥ प्रतिपन्नार्थविचलनं हि विसंवादो विपरीतार्थोपस्थापक प्रमाणावसेयः । स चात्रास्तीत्यागमाभासता । अथेदानीं संख्याभासोपदर्शनार्थमाह २० प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्याभासम् ॥५५॥ कस्मादित्याह - लोकायतिकस्य प्रत्यक्षतः परलोकादिनिषेधस्य परबुद्ध्यादेश्चासिद्धेः अतद्विषयत्वात् ॥ ५६ ॥ कुतोऽसिद्धिरित्याह- अतद्विषयत्वात् । यथा चाध्यक्षस्य परलो२५ कादिनिषेधादिरविषयस्तथा विस्तरतो द्वितीयपरिच्छेदे प्रतिपादितम् । १ क्रीडाकारणम् । २ वक्ष्यमाणव्यतिरिक्तम् । ३ सांख्यमते सर्वं सर्वत्र विषते यतः । ४ रजते नेदं रजतमिति यथा । ५ रागाद्यक्रान्तपुरुषवचनाज्जाते ज्ञाने 1 ? ६ आदिना परबुब्बादिग्रहः । - Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy