SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ सू० ६४०-५०] दृष्टान्ताभासविचारः न व्यावृत्तमपौरुषेयत्वादमूर्त्तत्वाचास्येति । न केवलमेत एव व्यतिरेके दृष्टान्ताभासाः किंतुविपरीतव्यतिरेकश्च यन्नामूर्त तन्ना. पौरुषेयम् ॥४५॥ विपरीतो व्यतिरेको व्यावृत्तिप्रदर्शनं यस्येति । यथा यनामूल५ तन्नापौरुषेयमिति । 'यन्नापौरुषेयं तन्नामूर्तम्' इति हि साध्यव्यतिरेके साधनव्यतिरेकः प्रदर्शनीयस्तथैव प्रतिबन्धादिति । अव्युत्पन्नव्युत्पादनार्थ पञ्चावयवोपि प्रयोगः प्राक् प्रतिपादितस्तत्प्रयोगाभासः कीदृश इत्याहबालप्रयोगाभासः पञ्चावयवेषु कियद्धीनता ॥४६॥१० यथाग्निमानयं देशो धूमवत्त्वात् , यदित्थं . तदित्थं यथा महानस इति॥४७॥ धूमवांश्चायमिति वा ॥४८॥ • यो व्युत्पन्नप्रक्षोऽनुमानप्रयोगे पञ्चावयवे गृहीतसङ्केतः स उपनयनिगमनरहितस्य निगमनरहितस्य वानुमानप्रयोगस्य तदा-१५ भासतां मन्यते । न केवलं कियद्धीनतैव बालप्रयोगाभासः किंतु तद्विपर्ययश्च-तेषामवयवानां विपर्ययस्तत्प्रयोगाभासो यथा तस्मादग्निमान् धूमवांश्चार्यमिति ॥४९॥ से छुपनयपूर्वकं निगमनप्रयोग साध्यप्रतिपत्त्यङ्गं मन्यते, नान्यथा । कुत एतदित्याह स्पष्टतया प्रकृतप्रतिपत्तेरयोगात् ॥ ५० ॥ स्पष्टतया प्रकृतस्य साध्यस्य प्रतिपत्तेरयोगात् । यो हि यथा गृहीतसङ्केतः स तथैव वाक्प्रयोगात्प्रकृतमर्थ प्रतिपद्येत नान्यथा लोकवत् । यस्तु सर्वप्रकारेण वाक्प्रयोगे व्युत्पन्नप्रक्षः स यथा यथा वाक्प्रयुज्यते तथा तथा प्रकृतमर्थ प्रतिपद्येत२५ लोके सर्वभाषाप्रवीणपुरुषवत् । तथा च न तं प्रत्यनन्तरोक्तर कश्चित्प्रयोगाभास इति ।। १ कुत इत्याह । २ अविनाभावात् । ३ अनुमानप्रयोगः । ४ बालन्युत्पत्त्यर्थमेव । ५ पश्चावयवानुमानवादी बालो वा। ६ निगमनपूर्वकमुपनयप्रयोग न मन्यते । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003838
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendrakumar Shastri
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages920
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy