________________
प्रमेयकमलमार्तण्डे [५. तदाभासपरि० अथेदानीं दृष्टान्ताभासप्रतिपादनार्थ दृष्टान्तेत्याधुपक्रमते । दृष्टान्तो ह्यन्वयव्यतिरेकमेदाद्विधेत्युक्तम् । तद्विपरीतस्तदाभा. सोपि तद्भेदाद्विधैव द्रष्टव्यः । तत्र___ दृष्टान्ताभासा अन्वये असिद्धसाध्य
साधनोभयाः ॥४०॥ अपौरुषेयः शब्दोऽमूर्तत्वादिन्द्रियसुख-पर
माणु-घटवदिति ॥ ४१ ॥ इन्द्रियसुखे हि साधनममूर्त्तत्वमस्ति, साध्यं त्वपौरुषेयत्वं नास्ति पौरुषेयत्वात्तस्य । परमाणुषु तु साध्यमपौरुषेयत्वमस्ति, १० साधनं त्वमूर्तत्वं नास्ति मूर्तत्वात्तेषाम् । घटे तूभयमपि पौरुषे. यत्वान्मूर्त्तत्वाच्चास्येति । न केवलमेत एवान्वये दृष्टान्ताभासाः
किन्तुविपरीतान्वयश्च यदपौरुषेयं तदमूर्त्तम् ॥ ४२ ॥
विपरीतोऽन्वयो व्याप्तिप्रदर्शनं यस्मिन्निति । यथा यदपौरुषेयं १५तदमूर्तमिति । 'यदमूर्त तदपौरुषेयम्' इति हि साध्येन व्याप्ते साधने प्रदर्शनीये कुतश्चिद्व्यामोहात् 'यदपौरुषेयं तदमूर्तम्' इति प्रदर्शयति । न चैवं प्रदर्शनीयम्
विद्युदादिनाऽतिप्रसङ्गादिति ॥ ४३ ॥ विद्युद्वनकुसुमादौ ह्यऽपौरुषेयत्वेष्यमूर्तत्वं नास्तीति । २० व्यतिरेके दृष्टान्ताभासाः
व्यतिरेके असिद्धतव्यतिरेकाः परमा
ण्विन्द्रियसुखाकाशवत् ॥ ४४ ॥ असिद्धतद्व्यतिरेकाः-असिद्धस्तेषांसाध्यसाधनोभयानां व्यतिरेको [व्यावृत्तिर्येषु ते तथोक्ताः । यथाऽपौरुषेयः शब्दोऽमू२५र्तत्वादित्युक्त्वा यन्नापौरुषेयं तन्नामूर्त्त परमाण्विन्द्रियसुखाका
शवदिति व्यतिरेकैमाह । परमाणुभ्यो ह्यमूर्तत्वव्यावृत्तावप्यऽपौ. रुषेयत्वं न व्यावृत्तमपौरुषेयत्वात्तेषाम् । इन्द्रियसुखे त्वपौरुषेय. त्वव्यावृत्तावप्यमूर्त्तत्वं न व्यावृत्तममूर्त्तत्वात्तस्य । आकाशे तूभयं १ अन्वयव्यतिरेकभेदात् । २ योनिमान्स धूमवानिति यथा। ३ दृष्टान्तम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org