________________
सू० ६।३४-३९]
हेत्वाभासविचारः
६३९
पक्षविपक्षैकदेशवृत्तिः सपक्षव्यापको यथा - अद्रव्याणि दिक्कालमनांस्य मूर्तत्वात् । अत्रापि प्राक्तनमेव व्याख्यानम् अद्रव्यरूपस्य गुणादेस्तु सपक्षतेति विशेषः ।
सपक्षविपक्षव्यापकः पक्षैकदेशवृत्तिर्यथा - पृथिव्यप्तेजोवाय्वाकाशान्य नित्यान्यगन्धवत्त्वात् । अगन्धवत्त्वं हि पृथिवीतोऽन्यत्र ५ पक्षैकदेशे वर्तते न तु पृथिव्याम्, सपक्षे चानित्ये गुणे कर्मणि च, विपक्षे चात्मादौ नित्ये सर्वत्र वर्तत इति । अथेदानीमकिञ्चित्करस्वरूपं सिद्ध इत्यादिना व्याचष्टेसिद्धे प्रत्यक्षादिवाधिते च साध्ये हेतुरकिञ्चित्करः ॥ ३५॥
सिद्धे निर्णीते प्रमाणान्तरात्साध्ये प्रत्यक्षादिबाधिते च हेतुर्न किञ्चित्करोतीत्यकिञ्चित्करोऽनर्थकः । यथा श्रावणः शब्दः शब्दत्वादिति ॥ ३६ ॥
न हासौ स्वसाध्यं साधयति, तस्याध्यक्षादेव प्रसिद्धेः । नापि साध्यान्तरम् । तत्रावृत्तेरित्यत आह
१५
किञ्चिदकरणात् ॥ ३७ ॥
प्रत्यक्षादिबाधिते च साध्येऽकिञ्चित्करोसौ
अनुष्णोग्निर्द्रव्यत्वादित्यादौ यथा किंचित्कर्त्तुमशक्यत्वात् ॥ ३८ ॥
२०
कुतोस्याऽकिञ्चित्करत्वमित्याह- किञ्चित्कर्तुमशक्यत्वात् । ननु प्रसिद्धः प्रत्यक्षानुमानागमलोकस्ववचनैश्च बाधितः पक्षाभासः प्रतिपादितः । तद्दोषेणैव चास्य दुष्टत्वात् पृथगकिञ्चित्क राभिधानमनर्थकमित्याशङ्क्य लक्षण एवेत्यादिना प्रतिविधत्तेलक्षण एवासौ दोषो व्युत्पन्नप्रयोगस्य पक्षदोषेणैव दुष्टत्वात् ॥ ३९ ॥
लक्षणे लक्षणव्युत्पादनशास्त्रे एवासावकिञ्चित्करत्वलक्षणो दोषो विनेयव्युत्पत्त्यर्थ व्युत्पाद्यते, न तु व्युत्पन्नानां प्रयोगकाले । कुत एतदित्याह - व्युत्पन्नप्रयोगस्य पक्षदोषेणैव दुष्टत्वात् ।
१ अनादिषु । २ उपन्यासकाले । ३ पक्षाभासलक्षणेन ।
For Personal and Private Use Only
Jain Educationa International
२५
www.jainelibrary.org