________________
प्रमेयकमलमार्तण्डे [५. तदाभासपरि० कुतोऽयं शङ्कितवृत्तिरित्याह
सर्वज्ञत्वेन वक्तृत्वाविरोधात् ॥ ३४॥ : एतच्च सर्वशसिद्धिप्रस्तावे प्रपञ्चितमिति नेहोच्यते । पराभ्युपगतश्च पक्षत्रयव्यापकाद्यनैकान्तिकप्रपञ्च एतल्लक्षणलक्षितत्वावि. ५शेषान्नातोऽर्थान्तरम्, सर्वत्र विपक्षस्यैकदेशे सर्वत्र वा विपक्ष
वृत्त्या विपक्षेप्यविरुद्धवृत्तित्वलक्षणसम्भवादित्युदाहियते । पक्षत्रयव्यापको यथा-अनित्यः शब्दः प्रमेयत्वात् । पक्षे सपक्षे विपक्षे चास्य सर्वत्र प्रवृत्तेः पक्षत्रयव्यापकः।
सपक्षविपक्षैकदेशवृत्तिर्यथा-नित्यः शब्दोऽमूर्त्तत्वात् । अमू. १० तत्वं हि पक्षीकृते शब्दे सर्वत्र वर्तते । सपक्षकदेशे चाका
शादौ वर्तते, न परमाणुषु । विपक्षैकदेशे च सुखादौ वर्त्तते न घटादाविति।
पक्षसपक्षव्यापको विपक्षकदेशवृत्तिर्यथा-गौरयं विषाणित्वात् । विषाणित्वं हि पक्षीकृते पिण्डे वर्त्तते, सपक्षे च गोत्व. १५धर्माध्यासिते सर्वत्र व्यक्तिविशेषे, विपक्षस्य चागोरूपस्यैकदेशे महिष्यादौ वर्तते न तु मनुष्यादाविति ।
पक्षविपक्षव्यापकः सपक्षकदेशवृत्तिर्यथा-अगौरयं विषाणि. त्वात् । अयं हि हेतुः पक्षीकृतेऽगोपिण्डे वर्तते । अगोत्वविपक्षे च गोव्यक्तिविशेषे सर्वत्र, सपक्षस्य चागोरूपस्यैकदेशे महि२० ज्यादौ वर्तते न तु मनुष्यादाविति ।
पक्षत्रयैकदेशवृत्तिर्यथा-अनित्ये वाग्मनसेऽमूर्त्तत्वात् । अमूतत्वं हि पक्षस्यैकदेशे वाचि वर्त्तते न मनसि, सपक्षस्य चैकदेशे सुखादौ न घटादौ, विपक्षस्य चाकाशादेर्नित्यस्यैकदेशे गगनादौ न
परमाणुष्विति। २५ पक्षसपक्षकदेशवृत्तिर्विपक्षव्यापको यथा-द्रव्याणि दिकाल.
मनांस्यमूर्तत्वात् । अमूर्तत्वं हि पक्षस्यैकदेशे दिकाले वर्तते न मनसि, सपक्षस्य च द्रव्यरूपस्यैकदेशे आत्मादौ वर्तते न घटादौ, विपक्षे चाद्रव्यरूपे गुणादौ सर्वत्रेति ।
१ सर्वज्ञे वक्तृत्वस्य बाधकप्रमाणाभावात्किं वक्तृत्वं तत्र वर्तते न वेति संदेहः । २ परैः नैयायिकादिभिः । ३ पक्षसपक्षविपक्षाः पक्षत्रयम् । ४ विपक्षेप्यविरुद्धतेति । ५. इयत्तावच्छिन्नपरिमाणयोगित्वं मूर्तिमत्त्वम् । निर्गुणा गुणा इति वचनादियचावच्छिनपरिमाणाभावः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org