________________
सू० ६।३०-३३] हेत्वाभासविचारः
पक्षविपक्षैकदेशवृत्तिरविद्यमानसपक्षो यथा-सत्तासम्बन्धिनः षट् पदार्था उत्पत्तिमत्त्वात् । अत्र हि हेतुः पक्षीकृतषट्पदा कदेशे अनित्यद्रव्यगुणकर्मण्येव वर्तते न नित्यद्रव्यादौ । विपक्षे चासत्तासम्बन्धिनि प्रागभावाद्येकदेशे प्रध्वंसाभावे वर्त्तते न तु प्रागभावादौ । सपक्षस्य चासम्भवादेव तत्रास्यावृत्तिः सिद्धा। ५ . पक्षव्यापको विपक्षैकदेशवृत्तिरविद्यमानसपक्षो यथा-आकाशविशेषगुणः शब्दो बाह्येन्द्रियग्राह्यत्वात् । अयं हि हेतुः पक्षीकृते शब्दे वर्त्तते । विपक्षस्य चानाकाशविशेषगुणस्यैकदेशे रूपादौ वर्त्तते, न तु सुखादौ । सपक्षस्य चासम्भवादेव तत्रा. स्याऽवृत्तिः सिद्धा। - पक्षकदेशवृत्तिर्विपक्षव्यापकोऽविद्यमानसपक्षो यथा-नित्ये वाङ्मनसे कार्यत्वात् । कार्यत्वं हि पक्षस्यैकदेशे वाचि वर्त्तते न मनसि । विपक्षे चानित्ये घटादौ सर्वत्र प्रवर्त्तते सपक्षे चावृ. त्तिस्तस्याभावात्सुप्रसिद्धा। . अथानैकान्तिकः कीदृश इत्याह
विपक्षेप्यविरुद्धवृत्तिरनैकान्तिकः ॥ ३०॥ न केवलं पक्षसपक्षेऽपि तु विपक्षेपीत्यपिशब्दार्थः । एकस्मिनन्ते नियतो ौकान्तिकस्तद्विपरीतोऽनैकान्तिकः सव्यभिचार इत्यर्थः। कः पुनरयं व्यभिचारो नाम ? पक्षसपक्षान्यवृत्तित्वम् । यः खलु पक्षसपक्षवृत्तित्वे सत्यन्यत्र वर्तते स व्यभिचारी२० प्रसिद्धः। यथा लोके पक्षसपक्षविपक्षवर्ती कश्चित्पुरुषस्तथा चायमनैकान्तिकत्वेनाभिमतो हेतुरिति । स च द्वेधा निश्चितवृत्तिः शङ्कितवृत्तिश्चेति । तत्रनिश्चितवृत्तिर्यथाऽनित्यः शब्दः प्रमेयत्वाद्
घटवदिति ॥ ३१॥ कथमित्याहआकाशे नित्येप्यस्य सम्भवादिति ॥ ३२ ॥ शङ्कितवृत्तिस्तु नास्ति सर्वज्ञो
वक्तृत्वादिति ॥ ३३॥ १ धौ । २ अन्यो विपक्षः ।
प्र. क. मा० ५४
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org