________________
६४८
प्रमेयकमलमार्तण्डे [५. तदाभासपरि० एकाधिकरणाविति, नानाधिकरणौ विचारं न प्रयोर्जेयत उभयो प्रमाणोपपत्ते, तद्यथा-अनित्या बुद्धिनित्य आत्मेति । अविरुद्धा. वैप्येवं विचारं न प्रयोजयतः, तद्यथा-क्रियावद्रव्यं गुणवञ्चेति । एककालाविति, भिन्नकालयोर्विचाराप्रयोजकत्वं प्रमाणोपपत्तेः, ५यथा क्रियावद्रव्यं निष्क्रियं च कालभेदे सति । तथाऽवसितौ विचारं न प्रयोजयतः, निश्चयोत्तरकालं विवादाभावादित्यनव. सितौ तौ निर्दिष्टौ । एवंविशेषणौ धौं पक्षप्रतिपक्षौ । तयोः परिग्रह इत्थंभावनियमः ‘एवंधर्मायं धर्मी नैर्वधर्मा' इति च । ततः प्रमाणतर्कसाधनोपालम्भत्वविशेषणस्य पक्षप्रतिपक्षपरि. १० ग्रहस्य जल्पवितण्डयोरसम्भवात् सिद्धं वादस्यैव तत्त्वाध्यवसा. यसंरक्षणार्थत्वं लाभपूजाख्यातिवत् ।
तत्त्वस्याध्यवसायो हि निश्चयस्तस्य संरक्षणं न्यायबलान्निखिल. बाधकनिराकरणम्, न पुनस्तत्र बाधकमुद्भावयतो यथाकथञ्चिनिर्मुखीकरणं लकुटचपेटादिभिस्तन्यक्करणस्यापि तत्वाध्यवसाय. १५संरक्षणार्थत्वानुषङ्गात् । न च जल्पवितण्डाभ्यां निखिलबाघकनिराकरणम् ; छलजात्युपक्रमपरतया ताभ्यां संशयस्य विपर्ययस्य वा जननात् । तत्त्वाध्यवसाये सत्यपि हि पैरनिर्मुखीकरणे प्रवृत्ती प्राश्निकास्तत्र संशेरते विपर्ययस्यन्ति वा-'किमस्य तत्त्वाध्यवसायोस्ति किं वा नास्तीति, नास्त्येवेति वा' परनिर्मुखीकरणमात्रे २० तत्वाध्यवसायरहितस्यापि प्रवृत्त्युपलम्भात् तत्त्वोपप्लववादिवत् । तथौ चाख्यातिरेवास्य प्रेक्षावत्सु स्यादिति कुतः पूजा लामो वा?
ततः सिद्धश्चतुरङ्गो वादः स्वाभिप्रेतार्थव्यवस्थापनफलत्वाद्वाद. त्वाद्वा लोकप्रख्यातवाद्वत् । एकाङ्गस्यापि वैकल्ये प्रस्तुतार्थाऽप
१ एकाश्रयौ नित्यानित्यलक्षणौ यथा। २ प्रवर्तयते यत इत्यध्याहार्यम् । ३ प्रति । ४ वादिप्रतिवादिनौ। ५ नानाधिकरणयोर्वस्तुधर्मयोः। ६ वस्तुधर्मद्वयस्यैकाधिकरणत्वे सति विचारो भवति, न तु नानाधिकरणे सवीति भावः । ७ अनित्यस्य बुद्ध्यधिकरणं नित्यस्य त्वात्माधिकरणम् , अत्र यथा प्रमाणोपपत्तेर्विचारो न स्यात् । ८ वादिप्रतिवादिनौ । ९ वादिप्रतिवादिनोः । १० प्रति । ११ अनित्यलक्षणः । १२ शब्दादिः । १३ नित्यलक्षणः। १४ प्रमाणतर्काभ्यां पक्षप्रतिपक्षौ साधनोपालम्भखरूपी जल्पवितण्डयोन भवतस्तत्र तयोर्विचारत्वात् । १५ लाभपूजाख्यातयो यथा वादस्यैव । १६ बाधक विरुद्धप्रमाणम् । १७ तस्य परस्य। १८ जल्पवितण्डाभ्यां निखिलबाधकनिराकरण भविष्यतीत्युक्त सत्याह । १९ उपक्रमः प्रस्तावः । २० परः प्रतिवादी । २१ सत्याम् । २२ सन्देहं कुर्वन्ति । २३ तत्त्वाध्यवसायाभावेन । २४ अप्रसिद्धिः। २५ वादिनः। २६ हेतोः। २७ चतुरङ्गत्वाभावसाधनमविजिगीषुविषयत्वसाधनं तत्वाध्यवसायसंरक्षणार्थरहितत्वसाधनमसिद्धं यतः। २८ सन्दिग्धानकान्तिकत्वपरिहारमार। .,
-
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org