________________
सू० ४।१०] कर्मपदार्थविचारः
६०१ न चैकरूपस्यार्थस्य क्रियासमावेशो युक्तः, सर्वदाऽविशिष्टत्वात् । यत्सर्वदाऽविशिष्टं न तस्य क्रियासम्भवो यथाकाशस्य, अविशिष्टं चैकरूपं वस्त्विति । न चैकरूपत्वेप्यर्थानां गन्तृवभावता युक्ता; निश्चलत्वाभावप्रसङ्गात् , सर्वदा गन्तृत्वैकरूपत्वात्। अथाऽगन्तृत्वरूपताप्येषामङ्गीक्रियते; तथा सत्याकाशवदगन्तृतैव ५ स्यात् । एवं च गत्यवस्थायामप्यचलत्वमेषां प्रसक्तं तदपरित्यताऽगतिरूपत्वान्निश्चलावस्थावत् । न चोभयरूपत्वादेषामयमदोषः; गन्तृत्वागन्तृत्वविरुद्धधर्माध्यासेनैकत्वव्याघातानुषङ्गादचलाऽनिलवत् ।
यथा चाक्षणिकैकरूपस्यार्थस्य क्रिया नोपपद्यते तथा क्षणिकैक- १० रूपस्यापि; उत्पत्तिप्रदेश एवास्य प्रध्वंसेन प्रदेशान्तरप्राप्त्यसम्भवात् । यो ह्युत्पत्तिप्रदेश एव ध्वंसमुपगच्छति न सोन्यदेशमाक्रामति यथा प्रदीपः, उत्पत्तिप्रदेश(शे)ध्वंसमुपगच्छति च क्षणिको भाव इति । न चार्थस्य क्षणिकत्वाद्देशाद्देशान्तरप्राप्तिर्धान्ता; क्षणिकवादस्य प्रतिषिद्धत्वात् । ततः परिणामिन्येवार्थे यथोक्तं १५ कर्मोपपद्यते।
न चेदमर्थादर्थान्तरम्; तथाभूतस्यास्योपलब्धिलक्षणप्राप्तस्यानुपलम्भेनासत्त्वात् । प्रयोगः-यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते तन्नास्ति यथा क्वचित्प्रदेशे घटः, नोपलभ्यते च विशिष्टार्थस्वरूपव्यतिरेकेण कर्मेति । न चोपलब्धिलक्षणप्राप्तत्वमस्याऽ- २० सिद्धम् ; "संख्या परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिसमवायाञ्चाक्षुषाणि" [वैशे० सू० ४।१।११] इत्यभिधानात् । तन्न कर्मपदार्थोपि परेषां घटते ।
नापि सामान्यपदार्थः, तस्य पराभ्युपगतस्वभावस्य प्रागेव प्रतिषिद्धत्वादिति।
२५ विशेषपदार्थोप्यनुपपन्नः । विशेषां हि नित्यद्रव्यवृत्तयः परमा
१ निरंशस्याऽविचलितस्य जीवादेः। २ सर्वदाऽविशिष्टश्च स्यास्क्रियासमवेतश्च स्यादिति सन्दिग्धानकान्तिकत्वे सत्याह। ३ गन्तृत्वमेवागन्तृत्वमेवेत्येकान्तप्रसङ्गलक्षणः। ४ पर्वतवायुवत् । ५ लब्धावसरो हि सौगतो ब्रूते-अर्थस्याक्षणिकैकरूपत्वे क्रिया न घटते तर्हि क्षणिकैकरूपत्वे घटिष्यत इत्याशङ्कायामाह। ६ बौद्धमतापेक्षयो. दाहरणम् । ७ सर्वथाऽक्षणिके क्षणिके वार्थेऽर्थ क्रिया न घटते यतः । ८ कर्मरूपतया परिणतो विशिष्टः । ९ विशेषणमसिद्धमित्युक्ते सत्याह । १० सामान्यनिराकरणसमये। ११ नित्यद्रव्यवृत्तयोऽत्यन्तव्यावृत्तिहेतवो विशेषाः, विशेषा इति बहुवचनेनानन्त्य विवक्षितम् । १२ सामान्यरहितनित्यद्रव्यवृत्तयोऽन्त्या विशेषाः। प्र. क० मा० ५१
www.jainelibrary.org
Jain Educationa International
For Personal and Private Use Only