________________
सू० ४।१०] समवायपदार्थविचारः
६१५ दिवाविकलकारणत्वात् । तदा तदनुत्पत्तौ वा पश्चादप्यनुत्पत्तिप्रसङ्गो विशेषाभावात् । .. यदप्युक्तम्-द्रव्ययोर्विशेषणभावेनेत्यादि; तदप्ययुक्तम् । यतो न द्रव्याभ्यामर्थान्तरभूतः संयोगः प्रतिपत्तुः प्रत्यक्षे प्रतिभाति यतस्तदर्शनाद्विशिष्टे द्रव्ये आहरेत् । किं तर्हि ? प्राग्भाविसान्तराव-५ स्थापरित्यागेन निरन्तरावस्थारूपतयोत्पन्ने वस्तुनी एव संयुक्तशब्दवाच्ये, अवस्थाविशेषे प्रभावितत्वात् संयोगशब्दस्य । तेन यत्र तथाविधे वस्तुनी संयोगशब्दविषयभावापन्ने पश्यति ते एवाहरति, नान्ये ।
यदप्युक्तम्-कुण्डलीत्यादिः तदप्युक्तिमात्रम् । यतो यथैव हि १० चैत्रकुण्डलयोर्विशिष्टावस्थाप्राप्तिः संयोगः सर्वदा न भवति, तद्वत् 'कुण्डली' इति मतिरप्यवस्थाविशेषनिबन्धना कथं तद्भावे भवेत् ? विधिप्रतिषेधावपि न केवलयोश्चैत्रकुण्डलयोः, किन्त्ववस्थाविशेषस्यैवेत्युक्तदो(नवकाशः । ततो ये अनेकवस्तुसन्निपाते सत्युपजायन्ते प्रत्यया न ते परपरिकल्पित-१५ संयोगविषयाः यथा प्रविरलावस्थितानेकतन्तुविषयाः प्रत्ययाः, तथा चैते संयुक्तप्रत्यया इति । __ यच्चान्यदुक्तम्-'विशेष विरुद्धानुमानं सकलानुमानोच्छेदकत्वान्न वक्तव्यमिति; तत्किमनुमानाभासोच्छेदकत्वान्न वाच्यम्, सम्यगनुमानोच्छेदकत्वाद्वा? तत्राद्यः पक्षोऽयुक्तः, न हि काला-२० त्ययापदिष्टहेतूत्थानुमानोच्छेदकस्य प्रत्यक्षादेरनुमानवादिनोपन्यासो न कर्तव्योऽतिप्रंसक्तेः। द्वितीयपक्षोप्ययुक्तः; न हि धूमादिसम्यगनुमानस्य विशेषविरुद्धानुमानसहस्रेणापि प्रत्यक्षादिभिरपहृतविषयेण बाधा विधातुं पार्यते । न च विशेषविरुद्धानुमानत्वादेवेदमवाच्यम्; यतो न विशेषविरुद्धानुमानत्वम-२५ सिद्धत्वादिवद्धत्वाभासनिरूपणप्रकरणे दोषो निरूपितो येनानुमानवादिभिस्तदसिद्धत्वादिवन्न प्रयुज्यते । ततो यदुष्टमनुमानं तदेव विशेषविघाताय न प्रयोक्तव्यम्-यथा 'अयं प्रदेशोत्रत्येनाग्निनाग्निमान्न भवति धूमवत्त्वान्महानसवत्' इत्यादिकम् । यतस्तेन यो विशेषो निराक्रियते स प्रत्यक्षेणैव तद्देशोपसर्पणे ३०
१ कुम्भकारस्य संयोगरूपत्वाभावादेव। २ उच्चारितत्वात् । ३ अवस्थात्र संयुक्तरूपा। ४ चैत्रकुण्डलयोविधिप्रतिषेधलक्षण उक्तदोषः। ५ इन्द्रियाणां सन्निकर्षे । ६ अत्र प्रकरणे विशेष: समवायः। ७ कालात्ययापदिष्टहेत्वाभासस्येव प्रत्यक्षादेरप्युच्छेदानुप्रसङ्गात् । ८ जनाथैः । ९ तस्य अग्नेः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org