________________
५६४
प्रमेयकमलमार्तण्डे [४. विषयपरि० भीष्टो नित्यत्वविरोधानुषङ्गात् । क्षणविशरारुतया निखिलार्थानां नाधाराधेयभावः, इत्यपि मनोरथमात्रम् ; क्षणविशरारुत्वस्यार्थानां प्रागेव प्रतिषेधात् । 'खे पतत्री' इत्याधऽबाधितप्रत्ययाच्च तद्भावप्रसिद्धः । ततः परेषां निरवद्यलिङ्गाऽभावान्नाकाशद्रव्यस्य ५प्रसिद्धिः।
नापि कालद्रव्यस्य । यच्चोच्यते-कालद्रव्यं च परापरादिप्रत्ययादेव लिङ्गात्प्रसिद्धम् । कालद्रव्यस्य च इतरमाद्भेदे 'कालः' इति व्यवहारे वा साध्ये स एव लिङ्गम् । तथा हि-काल इतरस्माद्भिद्यते
'काल' इति वा व्यतहर्त्तव्यः, परापरव्यतिकरयोगपद्यायोगपद्यचि१० रक्षिप्रप्रत्ययलिङ्गत्वात्, यस्तु नेतरस्माद्भिद्यते 'काल' इति वा न
व्यवह्रियते नासावुक्तलिङ्गः यथा क्षित्यादिः, तथा च कालः, तस्मात्तथेति। विशिष्टकार्यतया चैते प्रत्ययाः काले एव प्रतिबद्धाः। यद्विशिष्टकार्य तद्विशिष्टकारणादुत्पद्यते यथा घट इति प्रत्ययाः, विशिष्टकार्य च परापरव्यतिकरयोगपद्यायोगपद्यचिरक्षिप्रप्रत्यया १५ इति । परापरयोः खलु दिग्देशकृतयोः व्यतिकरो विपर्ययः-यत्रैव
हि दिग्विंभागे पितर्युत्पन्नं परत्वं तत्रैव स्थिते पुत्रेऽपरत्वम् , यत्र चापरत्वं तत्रैव स्थिते पितरि परत्वमुत्पद्यमानं दृष्टमिति दिग्देशा. भ्यामन्यनिमित्तान्तरं सिद्धम्; निमित्तान्तरमन्तरेण व्यतिकरा
सम्भवात्। न च परापरादिप्रत्ययस्य आदित्यादिक्रिया द्रव्यं वलि२० पलितादिकं वा निमित्तम् । तत्प्रत्ययविलक्षणत्वात्पटादिप्रत्यय
वत् । तथा च सूत्रम् “अपरस्मिन्परं युगपदयुगपच्चिरं क्षिप्रमिति काललिङ्गानि" [वैशे० सू० २२२६] आकाशवञ्चास्यापि विभुत्वनित्यैकत्वादयो धर्माः प्रतिपत्तव्या इति ।
अत्रोच्यते-परापरादिप्रत्ययलिङ्गानुमेयः कालः किमेकद्र२५ व्यम् , अनेकद्रव्यं वा ? न तावदेकद्रव्यम् ; मुख्येतरकालभेदेनास्य
द्वैविध्यात् । न हि समयावलिकादिर्व्यवहारकालो मुख्यकालद्रव्य. मन्तरेणोपपद्यते यथा मुख्यसत्त्वमन्तरेण केचिदुपचरितं सत्त्वम्।
१ आत्मनः । २ सौगतमतमालम्ब्य। ३ आदिपदेन योगपद्यायोगपचिरक्षिप्रादिग्रहः । ४ बसः । ५ तोते प्रत्यया अविशिष्टनिमित्तका भविष्यन्तीत्युक्ते सत्याह । ६ घटे सत्येव प्रसिद्धाः। ७ कथम् ? तथा हि। ८ प्रत्यर्थः । ९ सन्निहितदिग्देशे । १० कालापेक्षया दूरत्वम् । ११ कालापेक्षया सन्निहितत्वम् । १२ कालद्रव्यम् । १३ कालद्रव्यम् विनाऽन्यन्निमित्तं परापरादिप्रत्ययस्य भविष्यतीत्याशङ्कायामाह । १४ प्रत्ययः प्रतीतिः। १५ जैनादिभिः। १६ जैनैः। १७ व्यवहार । १८ आदिना लवनिमेषघटिकामुहूर्तप्रहरादिग्रहणम् । १९ अग्यादेरस्तित्वम् । २० माणवके । २१ अमेः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org