________________
प्रमेयकमलमार्तण्डे [४. विषयपरि० ननु यदि संख्या गुणो न स्यात्त_नित्यत्वमसमवायिकारणत्वं चास्या न स्यात् । अस्ति च तदुभयम् । तथा चोक्तम्-“एकादिव्य वहारहेतुः संख्याः । सा पुनरेकद्रव्या चानेकद्रव्या च । तत्रैकद्रव्यायाः सलिलादिपरमाणुरूपादीनामिव नित्यानित्यत्वनिष्पत्तयः। ५सलिलादयश्चादिपरमाणवश्चेति विग्रहः । अनेकद्रव्या तु द्वित्वादिका परार्द्धान्ता। तस्याः खल्वेकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिः, अपेक्षाबुद्धिनाशाच्च विनाशः क्वचिदाश्रयविनाशार्दुभयविनाशाच्चेति चार्थः । असमवायिकारणत्वं च द्वित्वबहुत्वसं. ख्यायाः व्यणुकादिपरिमाणं प्रति" [प्रश० भा० पृ० १११-११३] १० इति; एतदपि मनोरथमात्रम् ; भेदवदस्याः कारणत्वाभावात् । यथैव हि कार्यभिन्नतायां कारणभिन्नताया असमवायिकारणत्वं भवता नेष्यते तथैकत्वस्यापि तन्नेप्दैव्यं तस्याऽभेदपर्यायत्वात् । अभेदभेदौ च स्वात्मपरात्मापेक्षौ रुपादिष्वपि भवतः । यथा
चैकमभिन्न मिति पर्यायस्तथानेकं भिन्नमित्यपि । तथा च द्वित्वा१५दिरप्यनेकत्वपर्यायः, तस्योत्पत्त्यादिकल्पना न कार्या ।
नन्वेवं सर्वत्र द्वे त्रीणि' इत्यादिप्रतिभासप्रसङ्गात् प्रतिभासप्रवि
१ उत्तरसंख्योत्पत्तौ प्राक्तनसंख्याऽसमवायिकारणं, द्रव्यं समवायिकारणमपेक्षाबुद्धिनिमित्तकारणमिति । २ आदिशब्दोत्र लुप्तो द्रष्टव्यः। ३ सलिलादि( कार्यलक्षण) रूपादीनामनित्यत्वनिष्पत्तिर्यथा तथाऽनित्यैकद्रव्यगताया एकसंख्याया नित्यत्वनिपत्तिः, यथा च जलादिपरमाणुरूपादीनां ( कारणरूपाणाम् ) तथा नित्यैकद्रव्यगताया एकसंख्याया नित्यत्वमिति भावः। ४ कार्यरूपाः। ५ कारणरूपपरमाणवः। ६ द्वित्वादिसंख्यां प्रत्यपेक्षाबुद्धः कारणत्वमेकत्वसंख्यायास्त्वसमवायिकारणत्वमिति भावः। ७ इमो द्वावमी बहवः। ८ संख्येय आश्रयः । ९ संख्येयस्य च। १० संख्याम् । ११ उत्तरगुणं प्रति प्राक्तनगुणस्यासमवायिकारणत्वाभ्युपगमात् । १२ द्वित्वादिसंख्या प्रति । १३ द्वित्वादिसंख्या प्रति । १४ अमेदपर्यायत्वेप्यसमवायिकारणत्वं कुतो न भवतीत्युक्ते सत्याह । १५ एकनानात्वम् । १६ रूपस्य स्वरूपापेक्षयाऽभेदः, परापेक्षया भेदः, एवं रसादिषु वाच्यम् । १७ अभेदोऽसमवायिकारणं न भवति द्रव्यादन्यत्र वृत्तिमत्त्वाद्भेदवत्सत्त्वादिवद्वेति । १८ अपिशब्देन द्रव्यं ग्राह्यं तत्रापि वपररूपापेक्षयाऽभेदभेदौ। १९ आदिशब्देन नाशस्थितिसंग्रहः। २० द्वित्वादेरनेकपर्यायत्वे वस्तुस्वरूपमेवायातम् , तस्य च स्वकारणकलापादुत्पत्तेरनेकविषयबुद्धिसहितेभ्यो निष्पत्तिरित्यादि निरर्थकमिति भावः । २१ द्वित्वादेरनेकत्वपर्यायत्वप्रकारेण । २२ त्रिचतुःपञ्चषडादिवस्तुषु । २३ द्वित्वादेरनेकपर्यायत्वात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org