________________
सू० ४।१०]. गुणपदार्थविचारः स्तत्प्रत्ययगोचरास्तथा घटायोपीत्यलमर्थान्तरभूतपरिमाणपरिकल्पनया।
यदप्युक्तम्-'बदरामलकादिषुभाक्तोऽणुव्यवहारः' इत्यादि तद्प्युक्तिमात्रम् ; मुख्यगौणप्रविभागस्यात्राप्रमाणत्वात् । न खलु यथा सिंहमाणवकादिषु मुख्यगौणविवेकप्रतिपत्तिः सर्वेषामविगानेनास्ति तथा "व्यणुके एवाणुत्वहस्खत्वे मुख्येऽन्यत्र भाक्त' इति कस्यचित्प्रतिपत्तिः । प्रक्रियामात्रस्य च सर्वशास्त्रेषु सुलभत्वानातो विवाद निवृत्तिः।
आपेक्षिकत्वाच्च परिमाणस्यागुणत्वम् । न हि रूपादेः सुखादेर्वा गुणस्यापेक्षिकी सिद्धिः। योपि नीलनीलतरादेः सुखसुखतरादे-१०
ऽऽपेक्षिको व्यवहारः सोऽपि तत्प्रकर्षापकर्षनिवन्धनो न पुनर्गुणस्वरूपनिवन्धनः। ततो ह्रस्वदीर्घत्वादेः संस्थानविशेषाद्यतिरेकाभावात्कथं गुणरूपता? तद्विशेषस्यापि कथञ्चिद्भेदाभिधाने ज्यस्रचतुरस्रादेरपि भेदेनाभिधानानुषङ्गात्कथं तञ्चतुर्विधत्वोपवर्णनं संशोमेतेति?
यच्चोक्तम्-पृथक्त्वं घटादिभ्योर्थान्तरं तत्प्रत्ययविलक्षणज्ञानग्राह्यत्वात्सुखादिवत् तदप्युक्तिमात्रम्; हेतोरसिद्धत्वात् । न खलु स्वहेतोरुत्पन्नाऽन्योन्यव्योवृत्तार्थव्यतिरेकेणार्थान्तरभूतस्य पृथक्त्वस्याध्यक्षे प्रतिभासोस्ति, अंत एवोपलब्धिलक्षणप्राप्तस्यास्यानुपलम्भादसत्त्वम् ।।
रूपादिगुणेषु च 'पृथक्' इतिप्रत्ययप्रतीतेरनेकान्तः। न हि तत्र पृथक्त्वमस्ति गुणेषु गुणासम्भवात् । न च गुणेषु 'पृथक्' इति प्रत्ययो भाक्तः, मुख्यप्रत्ययाविशिष्टत्वात् । न च स्वरूपेणा (ण) व्यावृत्तानामर्थानां पृथक्त्वादिवेशात्पृथग्रूपता घटते; भिन्नाभिन्नपृथग्रूपताकरणेऽकिश्चित्करत्वात् । भेदप-२५ क्षे हि सम्बन्धासिद्धिः । अभेदपक्षे तु पृथग्रूपस्यार्थस्यैवोत्पत्तेरान्तरभूतपृथक्त्वगुणकल्पनावैयर्थ्यम् । प्रयोगः-ये परस्परव्यावृ
१ परिमाणे। २ अविप्रतिपत्त्या। ३ द्वयणुके एवाणुत्वहस्खत्वे मुख्येऽन्यत्रान्यथेति प्रक्रियातो मुख्यगौणविवेकप्रतिपत्तिर्भविष्यतीत्युक्ते सत्याह । ४ अपेक्षाजनितत्वात् । ५ आशङ्कनीया। ६ आपेक्षिकत्वात्परिमाणस्य गुणत्वं नास्ति यतः । ७. परिमाणस्य । ८ व्यतिरेको भेदः। ९ तस्य परिमाणस्य । १० पृथक्त्वमिति । ११ घटात्पटो व्यावृत्त इति। १२ तव्य तिरेकेणार्थान्तरभूतस्य पृथक्त्वस्याध्यक्षे प्रतिभासो नास्ति यतः। १३ गगनकमलवत् । १४ घटपटादीनाम् । १५ आदिशब्देन विभागपरिग्रहः । १६ कथम् ? तथा हि।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org