________________
५६७
सू० ४।१०] कालद्रव्यवादः योगपद्यचिरक्षिप्रप्रत्ययानामभावः स्यात् । न खलु ते निनिमित्ताः कादाचित्कत्वाद्धटादिवत् । नाप्यविशिष्टनिमित्ताः, विशिष्टप्रत्यय त्वात् । न च दिग्गुणजातिनिमित्तास्ते; तज्जातप्रत्ययवैलक्षण्येनोपपत्तेः। तथा हि-अपरदिग्व्यवस्थितेऽप्रशस्तेऽधुमजातीये स्थविरपिण्डे 'परोयम्' इति प्रत्ययो दृश्यते । परदिग्व्यवस्थिते चोत्तम-५ जातीये प्रशस्ते यूनि पिण्डे 'अपरोयम्' इति प्रत्ययो दृश्यते ।
अथादित्यादिक्रिया तन्निमित्तम्। जन्मतो हि प्रभृत्येकस्य प्राणिन आदित्यवर्तनानि भूयांसीति परत्वमन्यस्य चाल्पीयांसीत्यपरत्वम् । नन्वेवं कथं योर्गपद्यादिप्रत्ययप्रादुर्भावः एकस्मिनेवादित्यपरिवर्तने सर्वेषामुत्पादात् ? तंथाव्यपदेशाभावाच; १० 'युगपत्कालः' इति हि व्यपदेशो न पुनः 'युगपदादित्यपरि• वर्त्तनम्' इति ।
न च क्रियैव कालः, अस्याः क्रियारूपतयाऽविशेषतो युगपदादिप्रत्ययाभावानुषङ्गात् । तस्य चोक्तकार्यनिर्वर्त्तकस्य कालस्य 'क्रिया' इति नामान्तरकरणे नाममात्रं भिद्येत ।
ने च कर्तृकर्मणी एव यौगपद्यादिप्रत्ययस्य निमित्तम् । यतो योगपद्यं बहूनां कर्तृणां कार्ये व्यापारो 'युगपदेते कुर्वन्ति' इति प्रत्ययसमधिगम्यः। बहूनां च कार्याणामात्मलाभो 'युगपदेतानि कृतानि' इति प्रत्ययसमधिगम्यः। न चात्र कर्तृमात्र कार्यमानं वालम्बनमतिप्रसङ्गात् । यत्र हि क्रमेण कार्य तत्रापि कर्तृकर्मणोः२० सद्भावात्स्यादेतद्विज्ञानम्, न चैवम् । यथाऽ(तथाऽ)योगपद्यप्रत्ययोप्ययुगपदेते कुर्वन्तीति, अयुगपदेतत्कृतमिति नाविशिष्टं कर्तृ
१ किंतु काललक्षणकारणोत्पाद्या इत्यर्थः। २ अविशिष्टं साधारणम् । ३ परप्रत्ययः, अपरप्रत्यय इत्यादिरूपेण । ४ परापरादिप्रत्ययानाम् । ५ निकट दिक् । ६ गुणापेक्षया। ७ मातङ्गादौ। ८ अतद्गुणसंविज्ञानोयं बसः, यौगपद्यमादिषामयौगपद्यादीनां ते योगपद्यादय इति, तेनायौगपद्यादिप्रत्ययप्रादुर्भावः कथमित्यर्थः संपन्नः । ९ युगपदादित्यपरिवर्तनमिति । १० अमुना हेतुना योगपद्यस्याभावः कृतः। ११ कालव्यतिरिक्तस्य निमित्तस्य योगपद्यादिप्रत्यये विचार्यमाणस्यानुपपद्यमानत्वात्तदादित्यपरिवर्तनं स्याक्रियाविशेषो वा ? न तावदादित्यपरिवर्तनमेकस्मिन्नप्यादित्यपरिवर्तने सर्वेषामुत्पादादिति, अस्य परिवर्तनं मेरुप्रादक्षिण्येन परिभ्रमणमहोरात्रमभिधीयते. तस्मिन्नेकस्मिन्नपि योगपद्यादिप्रतीतिविषयभूतार्थानामुत्पादः प्रतीयते एव तथा व्यपदेशाभावाच्चेति । १२ क्रिया कालो भविष्यतीत्याह । १३ कालरूपतया योगपद्यादिप्रत्ययो, न पुनः क्रियारूपतया। १४ भेदाभावतः। १५ तर्हि कर्तृकर्मणी यौगपधादिप्रत्ययस्य निमित्तं भविष्यतीत्युक्ते सत्याह । १६ यौगपद्यम् । १७ योगपद्यप्रत्यये। १८ विषयः, कारणमित्यर्थः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org