________________
सू० ४।१० ]
आत्मद्रव्यवादः
प्रस्तावे तदलमतिप्रसङ्गेन । तदेवं धर्माधर्मयोस्तदात्मगुणत्वनिषेधात् तन्निषेधानुमानबाधितमेतत्- 'देवदत्ताङ्गनाद्यङ्गं देवदत्तगुणपूर्वकम्' इति ।
अस्तु वा तयोर्गुणत्वम् ; तथापि न तदङ्गनाङ्गादिप्रादुर्भाव देशे तत्सद्भावसिद्धिः । न खलु सर्व कारणं कार्यदेशे सदेव तज्जन्मनि ५ व्याप्रियते, अञ्जनतिलकमन्त्राऽयस्कान्तादेराकृष्यमाणाङ्गनादिदेशेऽसतोप्याकर्षणादिकार्यकर्तृत्वोपलम्भात् । 'कार्यत्वे सति' इति च विशेषणमनर्थकम् ; यदि हि तद्गुणपूर्वकत्वाभावेपि तदुपकारकत्वं दृष्टं स्यात् तदा 'कार्यत्वे सति' इति विशेषणं युज्येत, 'सति सम्भवे व्यभिचारे च विशेषणमुपादीयमानमर्थवद्भवति' १० इति न्यायात् । कालेश्वरीदौ ष्टमिति चेत्; तर्हि कालेश्वरादिकमतगुणपूर्वकमपि यदि तेंदुपकारकम् कार्यमपि किञ्चिदन्यपूर्वकमपि तदुपकारकं भविष्यतीति सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिको हेतुः, क्वचित्सर्वज्ञत्वाभावे साध्ये वागादिवत् । न च नित्यैकस्वभावात्कालेश्वरादेः कस्यचिदुपकारः सम्भवतीत्युक्तम् । १५
न च ( ननु च ) नकुलशरीरप्रध्वंसाभावो ऽ हे रुपकारकोस्ति तस्मि न्सति सुखावास भ्रमणादिभावादतः सोपि तगुणपूर्वकः स्यात्, तथा च कार्यत्वासम्भवेन सविशेषणस्य हेतोरवर्त्तमानाद्भागासिद्धो हेतुः । प्रत्युक्तं चाभावस्यानन्तरमेव कार्यत्वम् । अथाऽतगुणपूर्वकः, अन्यदप्यतगुणपूर्वकमपि तदुपकारकं किन्न स्यात् ? २०
५७३
साध्यविकलं चेदं निदर्शनं ग्रासादिवदिति । तत्र ह्यात्मनः को गुण धर्मादिः, प्रयत्नो वा स्यात् ? धर्मादिश्चेत्; साध्यवत्प्रसङ्गेः । प्रयत्नश्चेत्; कोयं प्रयत्नो नाम ? आत्मनः तदवयवानां वा हस्ताद्यवयवप्रविष्टानां परिस्पन्दः, स तर्हि चलनलक्षणा क्रिया, कथं गुणः ? अन्यथा गमनादेरपि गुणत्वानुषङ्गात्क्रियावा त्तच्छेदः । २५ तथा चायुक्तम्- क्रियावत्त्वं द्रव्यलक्षणम् ।
यदप्युक्तम्- 'अदृष्टं स्वाश्रयसंयुक्ते आश्रयान्तरे कर्मारभते
१ ततश्चाचेतनत्वं कर्मणाम् । २ कर्मणां पौगलिकत्वसमर्थनस्य । ३ आदिना लोहादिदेशे । ४ हेतोर्विपक्षे वृत्तिनिवृत्त्यर्थं हेतौ विशेषणं योजयन्त्या चार्या इति वचनात् । ५ विपक्षे । ६ कुत्रचिन्निदर्शने । ७ विशेष्यस्य । ८ हेतोः । ९ अकार्यरूपे । १० अकार्यत्वे सति तदुपकारकत्वम् । ११ तस्य = देवदत्तादेः । १२ अभावस्य कार्यत्वासम्भवेन । १३ अणुपरिमाणानधिकरणत्वस्य प्रसज्यपक्षे । १४ देवदत्ताङ्गनाद्यङ्गमपि । १५ साध्यमसिद्धं यथा तथा धर्मादिगुणत्व मध्य सिद्धम् । १६ स्वाश्रयः = आत्मा । १७ द्वीपान्तरवर्त्तिपदार्थे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org