________________
सू० ४।१० ]
आकाशद्रव्यविचारः
५५९
पलम्भाभावप्रसङ्गात् । अथ देशान्तरे; तत्रापि किं तद्देशे गंत्वा, स्वदेशस्थ एव वा देशान्तरे तान्यसौ जनयेत् ? यदि स्वदेशस्थ एव; तर्हि लोकान्तेपि तजनकत्वप्रसङ्गः । अद्दष्टमपि च शरीरदेशस्थ - मेव देशान्तरवर्त्तिमणिमुक्ताफलाद्याकर्षणं कुर्यात् । तथा च "धर्माधर्मौ स्वाश्रयसंयुक्ते आश्रयान्तरे कैर्मारभेते" [ ] ५ इत्यादिविरोधः । न च वीचीतरङ्गादावप्यप्राप्त कार्यदेशत्वे सत्यारम्भकत्वं दृष्टं येनात्रापि तथा तत्कल्प्येताध्यक्षविरोधात् । अथ तदेशे गत्वा तर्हि सिद्धं शब्दस्य क्रियावत्त्वं द्रव्यत्वप्रसाधकम् ।
किञ्च, आकाशगुणत्वे शब्दस्यास्मदादिप्रत्यक्षता न स्यादाकाशस्यात्यन्तपरोक्षत्वात्; तथाहि - येऽत्यन्तपरोक्षगुणिगुणा न तेऽस्म- १० दादिप्रत्यक्षाः यथा परमाणुरूपादयः तथा च परेणाभ्युपगतः शब्द इति । न च वायुस्पर्शेन व्यभिचारः; तस्य प्रत्यक्षत्वप्रसाधनात् ।
"
किञ्च, आकाशगुणत्वेऽस्मदादिप्रत्यक्षत्वे चास्यात्यन्तपरोक्षाकाशविशेषगुणत्वायोगः । प्रयोगः - यदस्मदादिप्रत्यक्षं तन्नात्यन्त- १५ परोक्षगुणिगुणः यथा घटरूपादयः, तथा च शब्द इति ।
यच्चोक्तम्- 'सत्तासम्बन्धित्वात्' इति तत्र किं स्वरूपभूतया सत्ता सम्बन्धित्वं विवक्षितम् अर्थान्तरभूतयों वीं ? प्रथमपक्षे सामान्यादिभिर्व्यभिचारः तेषां प्रतिषिध्यमानद्रव्यकर्मभावत्वे सति तथाभूतया सत्तया सम्बन्धित्वेपि गुणत्वासिद्धेः । २० द्वितीयपक्षस्त्वयुक्तः न हि शब्दादयः स्वयमसन्त एवार्थान्तरभूतया सत्तया सम्बध्यमानाः सन्तो नामाश्वविषाणादेरपि तथाभावानुषङ्गात् । प्रतिषेत्स्यते चार्थान्तरभूतसत्तासम्बन्धेनार्थानां सत्त्वमित्यलमतिप्रसङ्गेन ।
"
यच्चोक्तम्-शब्दो द्रव्यं न भवत्येकद्रव्यत्वात् तत्रैकद्रव्यत्वं २५ साधनमसिद्धम् ; यतो गुणत्वे, गगने एवैकद्रव्ये समवायेन वर्तने च सिद्धे, तत्सिद्ध्येत्, तच्चोक्तया रीत्याऽपास्तमिति कथं तत्सिद्धि: ?
१ आयोsनेकः शब्दः । २ स्वाश्रयः आत्मा आत्मनो व्यापकत्वात् । ३ मणिमुक्ताफलादौ, शरीरापेक्षया । ४ आकर्षणादिलक्षणम् । ५ कार्यम् = उत्तरवीची लक्षणम् । ६ उत्तरतरङ्गाणाम् । ७ वायुस्पर्शो ह्यत्यन्तपरोक्षगुणिगुणो भवत्यस्मदादिप्रत्यक्षो न भवतीति न । ८ आकाशगुणः शब्दः । ९ सामान्यविशेषसमवायवत् ( सामान्यविशेषसमवायाः स्वतः सन्त इति वचनात् ) । १० शब्दस्य । ११ द्रव्यगुणकर्मवत् । १२ उभयथा सत्तासम्बन्धित्वस्य दृष्टत्वात्प्रकारान्तरासम्भवात् । १३ आदिना विशेषसमवाययोर्ग्रहणम् । १४ रूपादिवत् । १५ शब्दस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org