________________
सू० ४।१०]
५५७
कादाचित्कत्वंम् । न चास्मदादिप्रत्यक्षत्वमक्षणिकत्वविरुद्धम् ; अक्षणिकेष्वपि सामान्यादिषु भावात् । ततो यथास्मदादिप्रत्यक्षा अपि केचित्प्रदीपादयो भावाः क्षणिकाः सामान्यादयस्त्वक्षणिकास्तथास्मदादिप्रत्यक्षा अपि विभुद्रव्यविशेषगुणाः 'केचित्क्षणिकाः केचिदक्षणिको भविष्यन्ति' इति सन्दिग्धो व्यतिरेकः । ५ अथाक्षणिके कँचिदस्मदादिप्रत्यक्षत्वविशेषणविशिष्टस्य विभुद्रव्यविशेषगुणत्वस्यादर्शनात्ततो व्यावृत्तिसिद्धिः; न; भवदीयादर्शनस्य साकल्येन भावाभावाप्रसाधकत्वात्, अन्यथा परलोकादेरव्यभावानुषङ्गः । सर्वस्यादर्शनं चासिद्धम् ; संतोऽपि निश्चेतुमशक्यत्वात् ।
विपक्षेऽदर्शन मात्रा या वृत्तिसिद्धौ
आकाशद्रव्यविचारः
" यद्वेदाध्ययनं किञ्चित्तदध्ययनपूर्वकम् । वेदाध्ययनवाच्यत्वादधुनाध्ययनं यथा ॥ "
[मी० लो० पृ० ९४९]
इर्त्यस्यापि गमकत्वप्रसङ्गः । न खलु वेदाध्ययनमतदध्ययन- १५ पूर्वकं दृष्टम् । तथा चास्यानादित्वसिद्धेश्वरपूर्वकत्वेन प्रामाण्यं न स्यात् । न च कृतकेंत्वादावप्ययं दोषः समानः तत्र विपक्षे 'हेतोः सद्भावबाधकप्रमाणसम्भवात् ।
Jain Educationa International
१०
धर्मादेश्चास्मदाद्यप्रत्यक्षत्वे 'देवदत्तं प्रत्युपसर्पन्तः पश्वादयो देवदत्तगुणाकृष्टास्तं प्रत्युपसर्पणवत्त्वाद्वस्त्रादिवत्' इत्यनुमानं न २० स्यात्; व्याप्तेरग्रहणात् । मानसप्रत्यक्षेण व्याप्तिग्रहणे सिद्धं धर्मादेरस्मदादिप्रत्यक्षैत्वम् । अथ 'बाह्येन्द्रियेणास्मदादिप्रत्यक्षत्वे सति'
१ हेतुं निवर्तयति । २ अस्मदादिप्रत्यक्षत्वविशेषणस्य । ३ पदार्थाः । ४ सुखादयः । ५ धर्मादयः । ६ हेतोर्विपक्षाद्व्यावृत्तिः । ७ धर्मादौ । ८ आदिना परमाण्वादेव । ९ भवदीयादर्शनस्य परलोकादौ सद्भावाविशेषात् तथा च चार्वाकमतप्रसङ्गः । १० नरस्य । ११ सर्वेषां हेतोर्विपक्षेऽदर्शनं विद्यते तथापि तस्य । १२ सर्वेषां प्राणिनां ग्रहणाभावात्, अन्यथाऽशेषज्ञत्वप्रसङ्गः । १३ अक्षणिके । १४ अदर्शनसामान्यात् । १५ विपक्षात् । १६ अपौरुषेयत्वलक्षण साध्यस्य । १७. अवेदाध्ययनपूर्वके लोकवचने विपक्षे हेतोरदर्शनमात्राद्धेतोर्विपक्षाद्व्यावृत्तिसिद्धेः सद्भावात् । १८ ईश्वरकर्तृकत्वेन । १९ भवन्मते । २० हेतौ । २१ नित्ये गगनादौ यत्कृतकं न भवति तदनित्यं न भवति यथा गगनमिति । २२ यवत्तं प्रत्युपसर्पणवत्तत्तद्देवदत्तगुणाकृष्टमिति प्रत्यक्षेण धर्मादेरप्रत्यक्षत्वात् । २३ तवश्च धर्मादिना व्यभिचारः पूर्ववदवस्थ एव । २४ इति विशेषणेन
1
For Personal and Private Use Only
www.jainelibrary.org