________________
५५४
प्रमेयकमलमार्तण्डे [४. विषयपरि० कल्पना चेत्, नन्विदं प्रत्यभिज्ञानं शब्देपि समानम् 'उपाध्यायोक्तं शृणोमि शिष्योक्तं वा शृणोमि' इति प्रतीतेः।
ननु प्रत्यभिज्ञानस्य भेवदर्शने दर्शनस्सरणकारणकत्वादत्र च तदभावात्कथं तदुत्पत्तिः? न खलूपाध्यायोक्ते शब्दे दर्शनवत्स्सरणं ५भवति; अस्य पूर्वदर्शनाद्याहितसंस्कारप्रबोधनिबन्धनत्वात् । न
च कारणाभावे कार्य भवत्यतिप्रसङ्गात्; इत्यप्यनुपपन्नम्। सम्बन्धिताँप्रतिपत्तिद्वारेणात्रैकत्वस्य प्रतीतेः। सम्बन्धितायां च दर्शनस्मरणयोः सद्भावसम्भवात्प्रत्यभिज्ञानस्योत्पत्तिरविरुद्धा। तथाहि
प्रत्यक्षानुपंलम्भतोऽनुमानतो वा तत्कार्यतया तत्संबन्धिनं शब्द १० प्रतिपद्येदानीं तेत्स्मृत्युपलम्भोद्भूतं प्रत्यभिज्ञानं तत्सम्बन्धितया तं प्रतिपद्यमानमेकत्वविशिष्टमेव प्रतिपद्यते, अन्यथा 'उपाध्यायोक्तं शृणोमि' इति प्रतीतिर्न स्यात् , किन्तु तदुक्तोद्भूतं तत्सदृशं शब्दान्तरं शृणोमि' इति प्रतीतिः स्यात् । वीचीतरङ्गन्यायेन तदुत्पत्तिश्चात्रैव निषेत्स्यते। १५ यदि पुनर्लुनपुनर्जातनखकेशादिवत्सदृशापरापरोत्पत्तिनिवन्धनमेतत्प्रत्यभिज्ञानं न कालान्तरस्थायित्वनिबन्धनम्, तद्वाणादावपि समानम् । न समानमत्रै बाधकसद्भावात् ती कल्पना, नान्यत्र विपर्ययात् । नन्वत्र प्रत्यक्षम्, अनुमानं वा बाधकं
कल्प्येत ? प्रत्यक्षं चेत्, किमेकत्वविषयम् , क्षणिकत्वविषयं वा? २०न तावदेकत्वविषयम्; समविषयत्वेन तदनुकूलत्वात् । नापि
क्षणिकत्वविषयम्; शब्देऽन्यत्र वा तस्य विवादगोचरांपैन्नत्वात् । नाप्यनुमानम् ; प्रत्यभिज्ञानं हि मानसप्रत्यक्षं भवन्मते तस्य कथमनुमानं बाधकम् ? प्रत्यक्षमेव हि बाधकम् आमताग्राोकशाखाप्रभवत्वानुमानस्य, न पुनस्तदनुमानं प्रत्यक्षस्य । अथाध्यक्षा
१ पूर्वक्षणे। २ उत्तरक्षणे । ३ अहं गुरुः। ४ एकत्वग्राहिणः। ५ जैनमते । ६ श्रोत्रेन्द्रिययज्ञानवत् । ७ अयमुपाध्यायोक्तः शब्द इति । ८ मया यः शब्दः श्रूयते स उपाध्यायेनोक्त इति । ९ अन्वयव्यतिरेकतः। १० श्रूयमाणम् । ११ उपाध्याय. सम्बन्धित्वेन तस्य शब्दस्य । १२ दर्शनस्मृतिप्रभवम् । १३ तेन उपाध्यायोक्तेन शब्देन। १४ व्यजनानिलवत् । १५ न चैवम् । १६ तथा चाशेषार्थानां क्षणिकत्वप्रसङ्गात्सौगतमतसिद्धिः स्यात् । १७ शब्दे । १८ क्षणिकत्वेन । १९ नेमे ते बाणादय इत्यत्र बाधकाभावात् । २० शब्दाक्षणिकत्वप्रत्यभिशाने। २१ प्रत्यभिज्ञानस्यै कविषयत्वं प्रत्यक्षस्याप्येकविषयत्वम् । २२ तेन प्रत्यभिज्ञानेन । २३ क्षणिकत्वविषयस्य प्रत्यक्षस्य । २४ असिद्धत्वादिति भावः । २५ वैशेषिकमते । २६ पक्कान्येतानि फलानि एकशाखाप्रभवत्वादित्यनुमानस्याऽऽमताग्राहि प्रत्यक्षं बाधकम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org