________________
सू० ४।१०] अर्थस्य सामान्यविशेषात्मकत्वम् ५२९ गुण्यादिष्वप्यतस्तद्वत्कथञ्चिद्भेदाभेदप्रसिद्धेर्भिन्नप्रमाणग्राह्यत्वस्य
विरुद्धत्वम् ।
एकान्ततोऽवयवावयव्यादीनां भिन्नप्राणग्राह्यत्वं चासिद्धम् ; 'पटोयम्' इत्यायुले खेनाभिन्नप्रमाणग्राह्यत्वस्यापि सम्भवात् । ननु 'पटोयम्' इत्याद्युल्लेखेनावैयव्येव प्रतिभासते नावयवास्तत्क- ५ थमभिन्नप्रमाणग्राह्यत्वम् इत्यप्यपेशलम् ; तद्भेदाप्रसिद्धेः । तन्तव एव ह्यातानवितानीभूता अवस्थाविशेषविशिष्टाः 'पटोयम्' इत्याद्युल्लेखेन प्रतिभासन्ते नान्यस्ततोर्थान्तरं पठः । प्रमाणं हि यथाविधं वस्तुस्वरूपं गृह्णाति तथाविधमेवाभ्युपगन्तव्यम्, यत्रात्यन्तभेदग्राहकं तत्तत्रात्यन्तभेदो यथा घटपटादौ यत्र पुनः १० कँथश्चिद्भेदग्राहकं तत्र कथञ्चिद्भेदो यथा तन्तुपटादाविति ।
अतः कालात्ययापदिष्टं चेदं साधनं यथानुष्णोग्निर्द्रव्यत्वाजलवत् । न च पैंटादौ तथाविधभेदेनास्य व्याप्युपलम्भात्सर्वत्रीत्यन्तभेदकल्पना युक्ताः क्वचित्तार्णत्वादिविशेषाधारेणाग्निना धूमस्य व्याप्युपलम्भेन सर्वत्राप्यतस्तथाविधविशेषसिद्धिप्रसङ्गात् । १५ अथ तार्णत्वादिविशेषं परित्यज्य सकलविशेषसाधारणमग्निमात्रं धूमात्प्रसाध्यते । नन्वेवमत्यन्तभेदं परित्यज्यावयवावयव्यादिष्वपि भिन्नप्रमाणग्राह्यत्वाद्भेदमात्रं किं न प्रसाध्यते विशेषभावात् ?
दृष्टान्तैश्च साध्यविकलत्वान्न साधनाङ्गम् ; अत्यन्त भेदस्यात्राप्यसिद्धेः । तदसिद्धिश्च सद्रूपतया घटादीनामभेदात् । साधनविकलश्च; २० स्फारिताक्षस्यैकस्मिन्नप्यध्यक्षे घटादीनां प्रतिभाससम्भवात् । न च प्रतिविषयं विज्ञानभेदोभ्युपगन्तव्यः; मेचकज्ञानाभावप्रसङ्गात् । घटादिवस्तुनोप्येक विज्ञानविषयत्वाभावानुपङ्गाच्च, अत्राप्यूर्द्धाधोमध्यभागेषु तेंद्भेदस्य कल्पयितुं शक्यत्वात् । तथा चावयविप्रसिये दत्तो जलाञ्जलिः । प्रतीतिविरोधोन्यत्रापि न काकैर्भक्षितः । २५
७
१९
।
भिन्नप्रमाणग्राह्यत्वात् । २ साध्यविपर्ययव्याप्तो विरुद्धः । ३ साधनम् । ४ असिद्धत्वं परिहरति परः । ५ पटः । ६ पर्यायतया । ७ अभ्युपगन्तव्यः । ८ प्रमाणेन सर्वथा भेदस्य बाधनात् । ९ न केवलमसिद्धम् । १० भिन्नप्रमाणग्राह्यत्वादिति । ११ घटपट्योः । १२ सर्वथा । १३ तन्तुपटादौ १४ यथाग्निमात्रे साधिते सति खादिराग्निस्तथा पार्णाग्निरपि लभ्यते एवं भेदमात्रे साधिते भेदो लभ्यतेऽभेदोपि (-ते कथञ्चिद्भेदोऽपि ) लभ्यते इति भावार्थ: । १५ परेण त्वया । त्यागस्य । १७ घटपटवदिति । १८ अत्यन्तभेदः साध्यः । २० सेनावनादिज्ञानवत् । २१ सर्वथा । २२ तस्य ज्ञानस्य । भेदे च । २४ ज्ञानभेदेनैव सिद्धेः । २५ एकोयं घट इति । व्यादेः सर्वथा भेदे साध्ये |
१६ विशेष परि
प्र० क० मा० ४५
Jain Educationa International
For Personal and Private Use Only
१९ युगपत् ।
२३ घटादिवस्तुनो
२६ अवयवावय
www.jainelibrary.org