________________
'५४८
प्रमेयकमलमार्तण्डे [४. विषयपरि० परीक्षायां चतुर्णामपि समर्थयिष्यते । तन्न नित्यादिस्वभावमा. त्यन्तिकभेदभिन्नं च पृथिव्यादिद्रव्यं घटते।
नाप्याकाशादि; सर्वथा नित्यनिरंशत्वादिधर्मोपेतस्यास्याप्यप्रतीतेः। ननु चाकाशस्य तद्धर्मोपेतत्वं शब्दादेव लिङ्गात्प्रतीयते; ५तथाहि-ये विनाशित्वोत्पत्तिमत्त्वादिधर्माध्यासितास्ते केचिदा. श्रिता यथा घंटादयः, तथा च शब्दा इति । गुणत्वाच्च ते क्वचिदाश्रिता यथा रूंपादयः । न च गुणत्वमसिद्धम् । तथाहि-शब्दो गुणः प्रतिषिध्यमान,व्यकर्मभावत्वे सति सत्तासम्बन्धित्वाद्रू
पादिवत् । न चेदं साधनमसिद्धम् ; तथाहि-शब्दो द्रव्यं न भव. १० त्येकद्रव्यत्वाद्रूपादिवत् । न चेमप्यसिद्धम्। तथाहि-एकद्रव्यः
शब्दः सामान्यविशेषवत्त्वे सति बाझै केन्द्रियप्रत्यक्षत्वात्तद्वदेव । 'सामान्य विशेषवत्वात्' इत्युच्यमाने हि परमाणुभिर्व्यभिचारः, तनिवृत्त्यर्थम् 'इन्द्रियप्रत्यक्षत्वात्' इत्युक्तम् । तथापि घटादिना व्यभिचारः, तन्निरासार्थमेकेविशेषणम् । 'एकेन्द्रियप्रत्यक्षत्वात्' १५इत्युच्यमाने आत्मैना व्यभिचारः, तन्निवृत्त्यर्थ बाह्यविशेषणम् ।
रूपत्वादिना व्यभिचारपरिहारार्थ च 'सामान्यविशेषवत्त्वे सति' इति विशेषणम्।
तथा, कर्मापि न भवत्यसौ संयोगविभागाकारणत्वाद्रूपादिवदेवेति । तस्मात्सिद्धं प्रतिषिध्यमानद्रव्यकर्मभावत्वं शब्दस्य । २० 'सत्ताँसम्बन्धित्वात्' इत्युच्यमाने च द्रव्यकर्मभ्यामनेकान्तः,
तनिवृत्त्यर्थ 'प्रतिषिध्यमानद्रव्यकर्मभावत्वे सति' इति विशेषणम् । 'प्रतिषिध्यमानद्रव्यकर्मभावत्वात्' इत्युच्यमानेपि सामान्यादिनी व्यभिचारः, तन्निवृत्त्यर्थ 'सत्तासम्बन्धित्वात्' इत्यभिधानम् । तत्सिद्धं गुणत्वेन क्वचिदाश्रितत्वं शब्दानाम् ।
१ जैनः। २ गगने। ३ स्वावयवेषु । ४ तस्मात्कचिदाश्रिता भवन्त्येव । ५ आकाशविशेषगुणः शब्द इति वचनात् । ६ रूपिद्रव्ये। ७ शब्दो द्रव्यं न भवति कर्म च नेति । ८ त्रयः पदार्थाः स्वरूपेणासन्तः सत्तासम्बन्धात्सन्त इति वचनात्। ९ गगनलक्षणमेकं द्रव्यं यस्य स एकद्रव्यस्तस्य भावः, दृष्यन्तपक्षे घटायेकद्रव्यं यस्य रूपादेः। १० सामान्यशब्देनात्रापरसामान्यं गृह्यते। ११ एकद्रव्यत्वाभावात् । १२ घटादीनामेकद्रव्यत्वाभावात् । १३ घटस्य स्पर्शनचक्षुरिन्द्रियाभ्यां ग्राह्यत्वात्। १४ यतो मनोलक्षणेन्द्रियप्रत्यक्ष आत्मा। १५ अनेकद्रव्याश्रितत्वात् । १६ विशेषणम् । १७ इदानीं विशेष्यं विचारयति । १८ सत्तासम्बन्धित्वे द्रव्यकर्मणोर्गुणत्वाभावात्। १९ आदिना विशेषसमवाययोर्ग्रहणम् । २० गुणत्वाभावात्। २१ सामान्यविशेषसमवायाः स्वरूपेण सन्तो न तु सत्तासम्बन्धादित्यभिधानात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org