________________
५२१
सू० ४।९] अन्वय्यात्मसिद्धिः थैव व्यवहर्तव्यम् यथा वेद्याद्याकारात्मसंवेदनरूपतया प्रतिभासमानं संवेदनम् , सुखाद्यनेकाकारैकात्मतया प्रतिभासमानश्चात्मा' इत्यनुमानप्रसिद्धत्वाच्च।
सुखदुःखादिपर्यायाणामन्योन्यमेकॉन्ततो भेदे च 'प्रागहं सु. ख्यासं सम्प्रति दुःखी वर्ते' इत्यनुसन्धानप्रत्ययो न स्यात् । तथा-५ विधवासनाप्रबोधादनुसन्धानप्रत्ययोत्पत्तिः, इत्यप्यसत्यम् अनुसन्धानवासना हि यद्यनुसन्धीयमानसुखादिभ्यो भिन्ना; तर्हि सन्तानान्तरसुखादिवत्स्वसन्तानेप्यनुसन्धानप्रत्ययं नोत्पादयेदविशेषात् । तदभिन्ना चेत् तावद्धा भिद्येत । न खलु भिन्नादभिन्नमभिन्न नामोऽतिप्रसङ्गात् । तथा तत्प्रबोधात्कथं सुखादिष्वेकमनु-१० सन्धानज्ञानमुत्पद्येत ? तेभ्यस्तस्याः कथञ्चिद्भेदे नाममात्रंभिद्येतअहमहमिकया स्वसंवेदनप्रत्यक्षप्रसिद्धस्यात्मनः सहक्रमभाविनो गुणपर्यायानात्मसात्कुर्वतो 'वासना' इति नामान्तरकरणात् । __ क्रमवृत्तिसुखादीनामेकसन्ततिपतितत्वेनानुसन्धाननिबन्धनत्वम् ; इत्यपि तागेव; आत्मनः सन्ततिशब्देनाभिधानात् । तेषां १५ कथञ्चिदेकत्वाभावे नैकपुरुषसुखादिवदेकसन्ततिपतितत्वस्याप्य
योगात्।
आत्मनोऽनभ्युपगमे च कृतनाशाकृताभ्यागमदोषानुषङ्गः । कर्तुनिरन्वयनाशे हि कृतस्य कर्मणो नाशः कर्तुः फैलानभिसम्बन्धात् , अकृताभ्यागमश्च अकर्तुरेव फलाभिसम्वधात् । ततस्त-२० दोषपरिहारमिच्छतात्मानुगमोभ्युपगन्तव्यः।न चाप्रमाणकोयम्; तत्सद्भावावेदकयोः स्वसंवेदनानुमानयोः प्रतिपादनात् ।
'अहमेव ज्ञातानहमेव वेद्मि' इत्यादेरेकप्रमातृविषयप्रत्यभिज्ञानस्य च सद्भावात् । तथा चोक्तं भद्देन
१ आदिना वेदकसंवित्तिग्रहः । २ हर्ष विषादादिग्रहः। ३ साधनमसिद्धमित्युक्ते सत्याह । ४ सर्वथा। ५ आत्मनः सकाशात् । ६ प्रत्यभिज्ञान । ७ गम्यमान । ८ सर्वथा। ९ सुखादिस्वरूपेण । १० उभयत्र भिन्नत्वस्य। ११ तर्हि । १२ सुखादयो यावन्तः। १३ एकम् । १४ अन्यथा। १५ घटपटादिभ्योऽभिन्नानां तत्स्वरूपाणां भिन्नत्वप्रसङ्गात् । १६ वासनाया अचेतनत्वे च । १७ अनेकवासना । १८ अनेकसुखानुसन्धानज्ञानमुत्पद्यतेत्यर्थः। १९ कारणबहुत्वे कार्यबहुत्वमिति वचनात् । २० आत्मा वासनेति च । २१ अहं सुख्यहं दुःखीति । २२ स्वधर्मान् । २३ हर्षविषादादीनां च। २४ आत्मद्रव्यापेक्षया । २५ कथम् ? । २६ कर्मणः । २७ पुरुषस्य । २८ कर्मणः। २९ कर्मफलकाले तदभावात्। ३० सौगतेन । ३१ पूर्वम् । ३२ इदानीम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org