________________
सू० ४.१०] अर्थस्य सामान्यविशेषात्मकत्ववादः ५२५ परस्परतोऽत्यन्तं भिन्न भिन्नप्रमाणग्राह्यत्वाद्धटपटवत् । पटादौ हि भिन्नप्रमाणग्राह्यत्वमत्यन्तमेदे सत्यवोपलब्धम् , तत् सामान्यविशेषाकारयोरुपलभ्यमानं कथं नात्यन्तभेदं प्रसाधयेत् ? अन्यत्राप्यस्य तदप्रसाधकत्वप्रसङ्गात् । न खलु प्रतिभासभेदा. द्विरुद्धधर्माध्यासाच्चान्यत् पटादीनामप्यन्योन्यं भेदनिबन्धनमस्ति।५ स चावयवावयविनोर्गुणगुणिनोः क्रियातद्वतोः सामान्यविशेषयोश्चास्त्येव । पटप्रतिभासो हि तन्तुप्रतिभासवैलक्षण्येनानुभूयते, तन्तुप्रतिभासश्च पटप्रतिभासवैलक्षण्येन। एवं पटप्रतिभासाद्रूपादिप्रतिभासवैलक्षण्यमप्यवगन्तव्यम् ।
विरुद्धधर्माध्यासोप्यनुभूयत एव, पटो हि पटत्वजातिस-१० म्बन्धी विलक्षणार्थक्रियासम्पादकोतिशयेन महत्त्वयुक्तः, तन्त. वस्तु तन्तुत्वजातिसम्बन्धिनोल्पपरिमाणाच, इति कथं न भियन्ते ? तादात्म्यं चैकत्वमुच्यते, तस्मिंश्च सति प्रतिभासभेदो विरुद्धधर्माध्यासश्च न स्यात् , विभिन्न विषयत्वात्ततस्तयोः। यदि च तन्तुभ्यो नार्थान्तरं पटः, तर्हि तन्तवोपि नाशुभ्योर्थान्तरम् , १५ तेपि स्वावयवेभ्यः इत्येवं तावञ्चिन्त्यं यावन्निरंशाः परमाणवः, तेभ्यश्चाभेदे सर्वस्य कार्यस्यानुपलम्भः स्यात् । तस्मार्थान्तरमेव पटात्तन्तवो रूपादयश्च प्रतिपत्तैव्याः।
तथा विभिन्नकर्तृकत्वात्तन्तुभ्यो भिन्नः पटो घटादिवत् । विभिन्नशक्तिकत्वाद्वा विषाऽगेंदवत् । पूर्वोत्तरकालभावित्वाद्वा२० पितापुत्रवत् । विभिन्नपरिमाणत्वाद्वा बदरामलकवत् ।
तथा तन्तुपटादीनां तादात्म्ये 'पटः तन्तवः' इति वचनभेदः, 'पटस्य भावः पटत्वम्' इति षष्ठी, तद्धितोत्पत्तिश्च न प्राप्नोतीति।
किञ्च, 'तादात्म्यम्' इत्यत्र किं स पट आत्मा येषां तन्तूनां तेषां२५ भावस्तादात्म्यमिति विग्रहः कर्तव्यः, ते वा तन्तवः आत्मा यस्य
१ सन्दिग्धानेकान्तिकत्वे प्रतिपादिते सत्याह । २ साधनमिदम् । ३ स्वरूपम् । ४ कथम् ? तथा हि । ५ आदि पदेन क्रियादिग्रहः। ६ शीतापनोदादि। ७ अवयवावयव्यादयः। ८ प्रतिभासभेदे विरुद्धधर्माध्यासे च सत्यपि तादात्म्यं भविष्यतीत्युक्ते सत्याह । ९ तन्त्ववयवेभ्यः । १० व्यणुकादिलक्षणस्य । ११ परमाणुद्वयेन व्यणुकमारभ्यते, व्यणुकत्रितयेन त्र्यणुकमारभ्यते, तच्च प्रत्यक्षमेव तत उपरितन नियमाभावः । १२ जैनेन । १३ प्रतिभासभेदविरुद्धधर्माध्यासप्रकारेण । १४ योषित्कुविन्द । १५ अगदः औषधम् । १६ एकवचनवहुवचनत्वेन । १७ भेदाभावे सति । भेदे षष्ठीति वचनात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org