________________
सू० ४।९ ]
अन्वय्यात्मसिद्धिः
५२३
सम्वद्ध्येत, अपरित्यक्तपूर्वरूपो वा ? प्रथमपक्षे निरन्वयनाशप्रसङ्गः, अवस्थातुः कस्यचिदभावात् । द्वितीयपक्षे तु पूर्वोत्तरावस्थयोरात्मनोऽविशेषादपरिणामित्वानुषङ्गः । प्रयोगः यत्पूर्वोत्तरावस्थासु न विशिष्यते न तत्परिणामि यथाकाशम्, न विशिष्यते पूर्वोत्तरावस्थास्वात्मेतिः तदपरीक्षिताभिधानम् ; ५ आत्मनो भेदेन प्रसिद्धसत्ताकैः सुखादिपर्यायैः स्वस्य सम्बन्धानभ्युपगमात्। आत्मैव हि तत्पर्यायतया परिणमते नीलाद्याकारतया चित्रज्ञानवत्, खपरग्रहणशक्तिद्वयात्मकतयैक विज्ञानवद्वा । न खलु ययैव शक्त्यात्मानं प्रतिपद्यते विज्ञानं तयैवार्थम्, तैयोरभेदप्रसङ्गात् । अन्यथात्मनो येन रूपेण सुखपरिणामस्तेनैव दुःख - १० परिणामेपि अनयोरभेदो न स्यात् । न च तच्छक्तिभेदे तदात्मनो ज्ञानस्यापि भेदः; अन्यथैकस्य स्वपरग्राहकत्वं न स्यात् । नापि चित्रज्ञानस्य नीलाद्यनेकाकारतया परिणामेपि एकाकारताव्याघातः । तद्वत्सुखाद्यनेकाकारतया परिणामेपि आत्मनो नैकत्वव्याघातो विशेषाभावात् । न चैकत्र युगपत्, अन्यत्रं तु कालभेदेन १५ परिणामाद्विशेषः प्रतीतेर्नियामकत्वात् । यंत्र हि प्रतीतिर्देशकाल भन्ने तदभिन्ने वा वस्तुन्येकत्वं प्रतिपद्यते तत्रैकत्वं प्रतिपत्तर्व्यम्, यत्र तु नानात्वं प्रतिपद्यते तत्र तु नानात्वमिति ।
;
ततो दुक्तम्- सर्वात्मनैवाभेदे भेदस्तद्विपरीतः कथं भवेत् ? नोकदा विधिप्रतिषेधौ परस्परविरुद्धौ युक्तौ । प्रयोगः - यंत्रा - २० भेदस्तत्र तद्विपरीतो न भेदः यथा तेषामेव पर्यायीणां द्रव्यस्य च यत्प्रतिनियतमसाधारणमात्मस्वरूपं तस्य न खभावाद्भेदः, अभेदश्च द्रव्यपर्यायेयोरिति । किञ्च पर्यायेभ्यो द्रव्यस्याभेदः, द्रव्यात्पर्यायाणां वा ? प्रथमपक्षे पर्यायवद्रव्यस्याप्यऽनेकत्वानुषङ्गः ।
१ पूर्वाकारापरित्यागात् । २ 'आत्मा धर्मी' परिणामी न भवतीति साध्यम् पूर्वोत्तरावस्था स्वविशिष्टत्वात्' इत्युपरिष्टात्संयोज्यम् । ३ भिद्यते । ४ का ( पञ्चमी) । जैनै: ५ । ६ कथम् ? तथा हि । ७ ज्ञानस्य शक्तिद्वयं न विद्यते इत्याशङ्कायामाह । ८ स्वस्य स्वरूपम् । ९ एकयैव शक्त्या स्वरूपार्थयोः प्रतिपत्तौ । १० आत्मनि । ११ आत्मनि । १२ ( ' प्रतीते:' इतिखपुस्तके पाठ : ) । १३ सुखादिपर्यांयैः । १४ परेण । १५ नीलाद्यनेकाकारैः । १६ परेण । १७ सति । १८ द्रव्यपर्याययोदः । १९ भेदाभेदौ । २० द्रव्यपर्यायौ धर्मिणौ भिन्नौ न भवतस्तयोरभेदादिति अनुमानं सौगतप्रयुङ्कमुपरितोत्र योज्यम् । २१ पक्षे नीलाद्याकाराणाम् । २२ प्रथमपक्षे आत्मनः, द्वितीयपक्षे चित्रज्ञानस्य । २३ अन्योन्यम् । २४ पक्षे नीलाद्याकारचित्रज्ञानयोः । २५ पक्षे नीलाद्याकारेभ्यः । २६ पक्षे चित्रज्ञानस्य ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org