________________
५२०
प्रमेयकमलमार्तण्डे [४. विषयपरि० ध्यते; तदा तेनापेक्ष्यमाणेनोपकारिणा भवितव्यम् । 'कथं चोपकरोत्यसन्' इत्यादि सर्वमेत्रापि योजनीयम् ।
अकार्यकारणभावस्याप्यर्थानामनभ्युपगमे तु कार्यकारणभावो वास्तवः स्यात् । उभयाभावस्तु न युक्तः विरोधात्, क्वचिनीले५तरत्वाभाववत् । ततो यथा कुतश्चित्प्रमाणादकार्यकारणभावो गवाश्चादीनामतद्भावभावित्वंप्रतीतेः परस्परं परमार्थतो व्यवतिष्ठते, तथाग्निधूमादीनां तद्भावभावित्वप्रेतीतेः कार्यकारणभोवोपि बाधकाभावात् । तन्न प्रमाणतः प्रतीयमानः सम्बन्धः
स्वाभिप्रेततत्त्ववन्निह्नवनीयो येन स्थूलादिप्रतीतेन्तत्वात्तत्व१०भावतार्थस्य न स्यात् । चित्रज्ञानवद्युगपदेकस्यानेकाकारसम्बधित्ववत्क्रमेणापि तत्तस्याविरुद्धम् । इति सिद्धं परापरविवर्त्तव्याप्येकद्रव्यलक्षणमूर्खतासामान्यम् । यथा च द्वेधा सामान्यं तथा
विशेषश्च ॥७॥ १५ चकारोऽपिशब्दार्थे । कथं तदैविध्यमित्याह
पर्यायव्यतिरेकभेदात् ॥ ८॥ तत्र पर्यायस्वरूपं निरूपयतिएकस्मिन्द्रव्ये क्रमभाविनः परिणामाः पर्यायाः
आत्मनि हर्षविषादादिवत् ॥ ९॥ २० अत्रोदाहरणमाह आत्मनि हर्षविषादादिवत् ।
ननु हर्षादिविशेषेव्यतिरेकेणोत्मनोऽसत्त्वादयुक्तमिदमुदाहरणमित्यन्यः, सोप्यप्रेक्षापूर्वकारी; चित्रसंवेदनवदनेकाकारव्यापित्वे. नात्मनः स्वसंवेदनप्रत्यक्षप्रसिद्धत्वात् । 'यद्यथा प्रतिभासते तत्त
१ सौगतेन मया। २ असम्बन्धेन। ३ अकारणेनाऽकार्येण वा। ४ अकार्यमकारणं वा । ५ असम्बन्धे। ६ न केवलं कार्यकारणभावस्य । ७ परेण । ८ उक्तप्रकारेण सम्बन्धो निराकर्तुं न शक्यते यतः । ९ असम्बन्धः। १० नराश्ववत् । ११ चैतन्यव्याहारादिकार्यवत् । १२ परस्परं परमार्थतो व्यवतिष्ठते । १३ उभयत्र । १४ कार्यकारणाविनाभावः। १५ सौगत । १६ असम्बन्धादिवत् । १७ किंतु स्यादेव। १८ ज्ञानस्य । १९ जीवादिपदार्थस्य । २० ज्ञानसुखवीर्यदर्शनादय आत्मनः सहभावित्वाद्गुणाः स्युः। क्रमभावित्वाच्च पर्यायाश्च भवन्ति-कुतो वस्तुनोs. नेकधर्मात्मकत्वात् । २१ भेद । २२ अपरस्य । २३ सौगतः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org