________________
प्रमेयकमलमार्त्तण्डे
५१८
[ ४. विषयपरि०
ननु नालिकेरद्वीपादिवासिनामकस्माद्भूमस्याग्नेर्वोपलम्भेपि कार्यकारणभावस्यानिश्चयान्नासौ वास्तवः तदप्यपेशलम् बाह्यान्तःकारणप्रभवत्वात्तन्निश्चयस्य । क्षयोपशमविशेषो हि तस्यान्तःकारणम्, तद्भावभावित्वाभ्यासस्तु बाह्यम्, अकार्यकारणभावा५ वगमस्य त्वsतद्भावभावित्वाभ्यासः । तदभावान्न कचित्तेषां कार्यकारणभावस्याsकार्यकारणभावस्य वा निश्चय इति ।
धूमादिज्ञानजननसामग्रीमात्रात्तत्कार्यत्वादिनिश्चयानुत्पत्तेर्न कार्यत्वादि धूमादेः स्वरूपमिति चेत् तर्हि क्षणिकत्वादिरपि तत्स्वरूपं मा भूत एव । क्षणिकत्वाभावेऽवस्तुत्वम् अन्यत्रापि १० समानम्, सर्वथाप्यकार्यकारणस्य वस्तुत्वानुपपत्तेः खरश्टङ्गवत् ।
न च कार्यस्यानुत्पन्नस्यैव कार्यत्वं धर्मः असत्त्वात् । नाप्युत्पन्नस्यात्यन्तं भिन्नं तत्; तद्धर्मत्वात् । तत एव कारणस्यापि कार त्वं धर्मों नैकान्ततो भिन्नम् । तच्च ततोऽभिन्नत्वात्तद्राहिप्रत्यक्षेजैव प्रतीयते तद्व्यक्तिस्वरूपवत् । दृश्यते हि पिपासाद्याक्रान्तचेत१५ सामितरार्थव्यवच्छेदेनावालं तदपनोदसमर्थे जलादौ प्रत्यक्षात्प्रवृत्तिः । तच्छक्तिप्रधानतायां तु कार्यदर्शनार्त्तन्निश्चीयते तद्व्यतिरेकेणास्यासम्भवात् । न च स्वरूपेणाकार्यकारणयोस्तद्भावः सम्भवति। नाप्युत्तरकालेँ भिन्नेन तेनानयोः कार्यकारणताऽभिन्ना कर्तु शक्या; विरोधात् । नापि भिन्ना; तयोः स्वरूपेण कार्यकारणता२० प्रसङ्गात् । न च स्वरूपेण कार्यकारणयोरर्थान्तरभूततत्सम्बन्धकल्पने किञ्चित्प्रयोजनं कार्यकारणतायाः स्वतः सिद्धत्वात् ?
ननु कार्याप्रतिपत्ती कथं कारणस्य कारणताप्रतिपत्तिस्तदपेक्षत्वात्तस्याः ? कथमेवं पूर्वापरं भागाप्रतिपत्तौ मध्यभागस्यातो व्यावृत्तिप्रतिपत्तिरपेक्षाकृतत्वाविशेषात् ? तेतैः " पश्यन्नयं क्षणि
१ कारण । २ कार्यस्य । ३ पुनः पुनर्दर्शनम् । ४ कारणम् । ५ बाह्यान्तःकारणयोः । ६ अग्निधूमयोरुपलम्भेपि येषां बाह्यान्तः कारणे स्तस्तेषामेव तयोः कार्यकारणभावपरिच्छित्तिर्नान्येषामिति भावः । ७ नेत्रादि । ८ वह्नि । ९ आदिना कारणत्वादि । १० आदिनाग्न्यादेः । ११ धूमादिज्ञानसामग्रीमात्रात् क्षणिकत्वानिश्चयादेव । १२ धूमादिकं धर्म्य वस्तु भवतीति साध्यम कार्यकारणत्वाच्छशविषाणवत् । १३ धर्मधर्मिणोरत्यन्तभेदाभावात् । १४ सन्दिग्धानैकान्तिकत्वेयं परिहारः । . १५ कारणभूते । १६ कारणत्वम् । १७ कार्यस्य । १८ घटपटयोरिव । १९ कारणात् । २० सम्बन्धेन । २१ अभिन्ना चेत्कथं भिन्नेन सम्बन्धेन विधीयते ? विधीयते चेत्कथमभिन्नेति विरोध: । २२ अन्यादेः । २३ क्षणविशेषणम् । २४ वत्तमानक्षणस्य । २५ पूर्वा परभागाद्वयावृत्तिर्मध्यक्षणस्येति प्रतिपत्तिः कथं घटते । २६ मध्यभागस्यातो व्यावृत्तिप्रतिपत्यभावतः । २७ योगी ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org