________________
सू० ४।६ ]
सम्बन्धसद्भाववादः
कमेव पश्यति" इति [ ] वचो विरुध्येत । मध्यक्षणस्वभावत्वातद्व्यावृत्तेः तङ्गाहिज्ञानेन प्रतिपत्तिश्चेत्; तर्हि कार्योत्पादनशक्तेः कारणस्वभावत्वात्तद्राहिणैव ज्ञानेन प्रतिपत्तिरिष्यतां विशेषाभावात् । उक्ता च कार्यप्रतिपत्तिः प्रत्यक्षादिसहायेनात्मनेत्युपरम्यते ।
3
किञ्च कार्यानिञ्चये शैतेरप्यनिश्चये नीलादिनिश्चयोपि मा भूत् । यदेव हि तस्याः कार्ये तदेव नीलादेरपि, अनयोरमेदात् । वक्तृत्वस्य चासर्वज्ञत्वादिना व्यात्यसम्भवः सर्वज्ञसिद्धिप्रघट्टके प्रतिपादितः ।
५१९
न चेन्धनादिप्रभवपावकस्य मण्यादिप्रभवपावकादेभेदो येन १० नियतः कार्यकारणभावो न स्यात् । अन्यादृशाकारो हीन्धनप्रभवः पावकोsन्यादृशाकारश्च मण्यादिप्रभवः । तद्विचारे च प्रतिपत्रा निपुणेन भाव्यम् । यत्नतः परीक्षितं हि कार्य कारणं नातिवर्त्तते । कथमन्यथा वीतरागेतरव्यवस्था तच्चेष्टायाः साङ्कर्योपलम्भात् ?
कथं चैवंवादिनो मृतेतरव्यवस्था स्यात् ? व्यापारव्याहारा - १५ कारविशेषस्य हि चिञ्चैतन्यकार्यतयोपलम्भे सत्यस्त्यत्र जीवच्छरीरे चैतन्यं व्यापारादिकार्य विशेषोपलम्भात्, मृतशरीरे तु नास्ति तदनुपलम्भादिति कार्यविशेषस्योपलम्भानुपलम्भाभ्यां कारणविशेषस्य भावाभावप्रसिद्धेस्तद्वयवस्था युज्येत ।
3
अकार्यकारणभावेपि चैतत्सर्वं समानम् - सोपि हि द्विष्ठः २० कथमसहभाविनोः कार्यकारणत्वाभ्यां निषेध्ययोर्वर्तते ? ने चाद्विष्ठो सौ सम्बन्धाभावविरोधात् । पूर्वत्र भावे वर्त्तित्वा परत्र क्रमेणासौ वर्त्तमानोऽन्यनिस्पृहत्वेनैक वृत्तिमत्त्वात्कथं सम्बन्धाभावरूपता (तां) प्रतिपद्येते ? अथाकार्यकारणयोरेकमपेक्ष्यान्यत्रासौ क्रमेण वर्त्तत इति सस्पृहत्वेनस्य द्विष्टत्वात्तदभावरूपते २५
१ बसः । २ एव । ३ कार्यस्य । ४ मध्यक्षणस्वभावत्वाद्वयावृत्तेस्तद्राहिज्ञानेन प्रतिपत्तिर्घटते, कार्योत्पादन शक्तेः कारणभावत्वात्तद्गाहिज्ञानेन प्रतिपत्तिर्नेत्यत्र । ५ कारणसम्बन्धिन्याः कार्योत्पादनलक्षणायाः । ६ तव सौगतस्य । ७ कुतः । ८ शक्तिनीलाद्योः । ९ निरंशवस्तुवादिमते । १० जैनैः । ११ किंतु भेद एव । १२ सर्वज्ञेन । १३ अन्यादिलक्षणम् । १४ इन्धनमण्यादिकम् । १५ जपतपोध्यानादेः । १६ दृष्टान्तभूते । १७ कथम् । १८ गोमहिषयोः । १९ अकार्यकारणयोः । २० अनयोः सम्बन्धाभावो यतः । २१ अकार्यकारणभावतः सम्बन्धाभावरूपो न भवत्यद्विष्ठत्वाद्धसत्त्ववत् । २२ अभावात् । २३ अकारणे । २४ अकार्ये । २५ यथास्माकं सम्बन्धो न घटते तथा तवापीत्यर्थः । २६ असम्बन्धस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org