________________
सू० ४।६] सम्बन्धसद्भाववादः
५११ कर्मादियोगितापत्तेः स्थितिश्च प्रतिवर्णिता ॥ २२॥"
[सम्बन्धपरी०] इति । अस्तु वा कार्यकारणभावलक्षणः सम्बन्धः, तथाप्यस्य प्रतिपन्नस्य, अप्रतिपन्नस्य वा सत्त्वं सिद्ध्येत्? न तावदप्रतिपन्नस्य; अतिप्रसङ्गात्। प्रतिपन्नस्य चेत् कुतोस्य प्रतिपत्तिः-प्रत्यक्षेण, प्रत्यक्षा-५ नुपलम्भोभ्यां वा, अनुमानेन वा प्रकारान्तराऽसम्भवात् ? प्रत्यक्षेण चेत्, अग्निस्वरूपग्राहिणा,धूमस्वरूपग्राहिणा, उभयस्वरूपग्राहिणा वा?न तावदग्निस्वरूपग्राहिणा; तद्धि तत्सद्भावमात्रमेव प्रतिपद्यते न धूमखरूपम् , तदप्रतिपत्तौ च न तदपेक्षयाग्नेः कारणत्वावं. गमः। न हि प्रतियोगिस्वरूपाप्रतिपत्तौ तं प्रति कस्यचित्कारण-१० त्वमन्यद्वा धर्मान्तरं प्रत्येतुं शक्यमतिप्रसङ्गात् । नापि धूमस्वरूपग्राहिणा प्रत्यक्षेण कार्यकारणभावावगमः; अत एव, उभयखरूपग्रहणे खलु तनिष्ठसम्बन्धावगमो युक्तो नान्यथा । नाप्युभयखरूपग्राहिणा; तत्रापि हि तयोः स्वरूपमात्रमेव प्रतिभासते न त्वग्नेधूमं प्रति कारणत्वं तस्यैव तं प्रति कार्यत्वम् । न हि स्वस्वरूपनिष्ठ-१५ पदार्थद्वयस्यैकज्ञानप्रतिभासमात्रेण कार्यकारणभावप्रतिभासः, घटपटादेरपि तत्प्रसङ्गीत् । यत्प्रतिभासानन्तरमेकत्र ज्ञाने यस्य प्रतिभासस्तयोस्तदवगमः, इत्यपि ता; घटप्रतिभासानन्तरं पटस्यापि प्रतिभासनात् । न च 'क्रमभाविपदार्थद्वयप्रतिभाससंमन्वय्येकं ज्ञानम्' इति वक्तुं शक्यम्; सर्वत्रं प्रतिभासभेदस्य २० भेदनिबन्धनत्वात्। ___ अथाग्निधूमखरूपद्वयग्राहिज्ञानद्वयानन्तरभाविस्मरणसहकारीन्द्रियजनितविकल्पज्ञाने तद्दयस्य पूर्वापरकालभाविनः प्रतिभासाकार्यकारणभावनिश्चयो भविष्यतीत्युच्यते; तदप्युक्तिमात्रम् । चक्षुरादीनां तज्ज्ञानजननासामर्थ्य स्मरणसव्यपेक्षाणामपि जैन-२५
१ गगनाम्जादेरपि सत्वप्रसङ्गोऽप्रतिपन्नत्वाविशेषात्। २ अन्वयव्यतिरेकशानाभ्याम् । ३ उक्तप्रकारेभ्यः प्रमाणान्तरस्य परेणानभ्युपगमात् । ४ अयमग्निधूमस्य कारणमिति । ५ प्रतियोगी-धूमः । ६ धूमम् । ७अन्यादेर्वस्तुनः । ८ सादृश्यादिकम् ।। ९ स्वकुसुमादिकं प्रत्यपि कस्यचित्कारणत्वप्रसङ्गात् । १० अग्निधूमयोः । ११ न त्वयमग्निधूमस्य कारणं धूमोऽग्नेः कार्यमिति प्रतिभासः। १२ एव । १३ युक्तः । १४ तस्य कार्यकारणभावस्य । १५ एकज्ञानप्रतिभासमानत्वस्याविशेपात् । १६ अर्धस्य । १७ कुतः । १८ एकं शानं परिहरति परः पदार्थद्वयप्रतिभासे । १९ अनुयायि । २० शाने ज्ञेये च। २१ घटपटयोरिव । २२ तौ अग्निधूमाविति मीमांसकाभ्युपगते प्रत्यभिशाप्रत्यक्षे। २३ सम्बन्धवादिना । २४ अग्निधूमद्यकार्यकारणभावशानोत्पादनासामर्थे । २५ ज्ञानस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org