________________
५०९
सू० ४।६] सम्बन्धसद्भाववादः सम्बन्धस्य विश्लिष्टौ कार्यकारणाभिमतौ श्लिष्टौ स्याताम् कथं च तौ संयोगिसमवायिनौ ? आदिग्रहणात्वस्वाम्यादिकम् , सर्व मेतेनानन्तरोक्तेन सामान्यसम्बन्धप्रतिषेधेन चिन्तितम् ।
संयोग्यादीनामन्योन्यमनुपकाराचाऽजन्यजनकभावाच्च न सम्बन्धी च तादृशोनुपकार्योपकारकभूतः।
अथास्ति कचित्समवायी योऽवयविरूपं कार्य जनयति अतो नानुपकारादसम्बन्धितेति; तन्न; यतो जननेपि कार्यस्य केनचित्समवायिनाभ्युपगम्यमाने समवायी नासौ तदा जननकाले कार्यस्यानिष्पत्तेः । न च ततो जननात्समायित्वं सिद्ध्यति; कुम्भकारादेरपि घटे समवायित्वप्रसङ्गात् । तयोः समवायिनोः१० परस्परमनुपकारेपि ताभ्यां वा समवायस्य नित्यतया समवायेन वा तयोः परत्र वा क्वचिदनुपकारेपि सम्बन्धो यदीष्यते; तदा विश्वं परस्परासम्बद्धं समवायि परस्परं स्यात् । यदि च संयोगस्य कार्यत्वात्तस्य ताभ्यां जननात्संयोगिता तयोः तदा संयोगजननेपीष्टौ, ततः संयोगजननान्न तौ संयोगिनौ, कर्मणोपि १५ संयोगितीपत्तेः । संयोगो ान्यतैरकर्मजः उभयकर्मजश्चेष्यते । आदिग्रहणात्संयोगस्यापि संयोगिता स्यात् । न संयोगजननात्सं. योगिता। किन्तर्हि ? स्थापनादिति चेत् ; न स्थितिश्च प्रतिवर्णिता ग्रन्थान्तरे प्रतिक्षिप्ती, स्थाप्यस्थापकयोर्जन्यजनकत्वाभावान्नान्या स्थितिरिति ।
"कार्यकारणभावोपि तयोरसहभावतः। प्रसिद्धयति कथं द्विष्टोऽद्विष्ट सम्बन्धता कथम् ॥ ७॥
२८
१ स्वरूपेण । २ कारिकायाम् । ३ स्वामिभृत्यभावसम्बन्धादिकम् । ४ निराकृतम् । ५ अर्थः । ६ उपकारकः । ७ तन्त्वादिः । ८ सम्बन्धवादिना । ९ कार्येण समम् । १० समवायिना कारणेन कार्यस्य निष्पादनसमये कार्यस्यानिष्पन्नत्वात्कुतः कार्येण समत्वं कारणस्य ? तत्करणे सति तस्य विनष्टत्वात् । ११ तन्तूनाम् । १२ तन्तुपटयोः । १३ असमवायिनि कारणे कायें वा। १४ उपकारकत्वाभावाविशेषात् । १५ सम्बन्धस्य । १६ समवायिभ्याम् । १७ संयोगिनोः। १८ क्रियायाः। १९ कर्मणः सकाशात्संयोगजननात् । २० तथा च द्रव्ययोरेव हि संयोगो, न कर्मणोरेवेति मतं विघटेत । २१ शैलश्येनयोः । २२ मल्लयोः। २३ कारिकायाम् । २४ गुणरूपस्य । २५ हस्तपुस्तकसंयोगात्कायपुस्तकसंयोगस्योत्पत्तेः । २६ संयोगिभ्यां स्थाप्यपदार्थस्य संयोगलक्षणस्य स्थितिनिष्पादनात् । २७ संयोगिनोः संयोगस्य च । २८ निराकृता । २९ प्रत्यर्थः । ३० जन्यजनकभावस्तु प्राक्प्रतिक्षिप्त इत्यर्थः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org