________________
५१२
प्रमेयकमलमार्त्तण्डे [ ४. विषयपरि०
कत्वविरोधात् । न हि परिमलस्मरणसव्यपेक्षं लोचनं 'सुरभि चन्दनम्' इति प्रेत्ययमुत्पादयति । तत्सव्यपेक्षलोचनव्यापारानन्तरमेते कार्यकारणभूता इत्यवभासनात्तद्भावः सविकल्पकप्रत्यक्षप्रसिद्धः; इत्यप्यसमीचीनम्: गन्धस्यापि लोचनज्ञानविषय५ त्वप्रसङ्गात्, गन्धस्मरणसहकारिलोचनव्यापारानन्तरं 'सुरभि चन्दनम्' इति प्रत्ययप्रतीतेः । तन्न प्रत्यक्षेणासौ प्रतीयते ।
नापि प्रत्यक्षानुपलम्भाभ्याम् ; प्रत्यक्षस्येवानुपलम्भस्यापि प्रतिषेर्ध्यविविक्तवस्तुमात्रविषयत्वेनात्राऽसामर्थ्यात् । अथाग्निसद्भाव एव धूमस्य भावस्तदभावे चाभावः कार्यकारणभावः, स चैताभ्यां १० प्रतीयते इच्युच्यते तर्हि वकृत्वस्यासर्वज्ञत्वादिना व्याप्तिः स्यात् । तद्धि रागादिमत्त्वाऽसर्वशत्व सद्भावे स्वात्मन्येव दृष्टम्, तदभावे चोपलशकलादौ न दृष्टम् । तथा च सर्वशवीतरागाय दत्तो जलाञ्जलिः ।
१०
वैकृत्वस्य वक्तुकामताहेतुकत्वान्नायं दोषः : रागादिसद्भावेपि १५ वक्तुकामताभावे तस्यासत्त्वात् । नन्वेवं व्यभिचारे विवक्षाप्यस्य निमित्तं न स्यात्, अन्यविवक्षायामप्यन्यशब्दोपलम्भात्, अन्यथा गोत्रस्खलनादेरभावप्रसङ्गात् । अथार्थविवक्षाव्यभिचारेपि शब्दविवक्षायामप्यव्यभिचारः; न; स्वप्नावस्थायामन्यत्र गतचित्तस्य वा शब्दविवक्षाभावेपि वक्तृत्वसंवेदनात् । न च व्यवहिता सा २० तन्निमित्तमिति वक्तव्यम् ; प्रतिनियत कार्यकारणभावाभावप्रसङ्गात्, सर्वस्य तत्प्राप्तेः । अथ 'असर्वज्ञत्वाद्यभावे सर्वत्र वक्तृत्वं न सम्भवति' इत्यत्र प्रमाणाभावान्न तस्य तेन कार्यकारणभावलक्षणः प्रतिबन्धः सिद्ध्यति तदग्निधूमादावपि समानम् ।
;
२ कर्तृपदम् । २ कर्मपदम् । ३ परिमलस्मरणसव्यपेक्षत्वेपि लोचने सति चन्दनं सुरभीति ज्ञानं घ्राणेन्द्रियादेव जायत इत्यर्थः । ४ अग्निधूमादयः । ५ तदपि कुत इत्याह । ६ अग्निधूमादि । ७ महाहदादि । ८ असर्वशत्वादिसद्भावे वक्तृत्वस्य सद्भावस्तदभावे घाभाव इति । ९ सर्वशो वीतरागश्च नास्तीति भावः । १० सर्वशास्तित्ववादिना जैनादिना । ११ सर्वशास्तित्वं सूचयन्नाह । १२ साधनस्य । १३ न तु रागादिहेतुकत्वात् । १४ असर्वज्ञत्वलक्षणः । १५ आदिना द्वेषादि । १६ उक्तप्रकारेण | १७ वक्तृत्वसाधनस्य। १८ अग्निदत्त । १९ जिनदत्तादि । २० नाम । २१ वकृत्वस्य । २२ कार्यान्तरे । २३ शब्दविवक्षा यदासीत्तदा वक्तृत्वस्य निमित्तं स्यात्कार्यान्तरेणाव्यवहिता । अतोऽव्यवहिता या शब्दविवक्षा पश्चात्तन्निमित्तं भवतीत्युक्ते आह । २४ व्यवहितस्य कार्यस्य । २५ तस्य = व्यवहितकारणत्वस्य । २६ आदिना रागादिमत्त्वादि | २७ नृषु । २८ अविनाभावः । २९ यतो युक्तिमन्तरेण बौद्धेनोक्तमिति भावः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org