________________
४८९
सू० ४।६] क्षणभङ्गवादः
ने चानन्तरातीतानागतक्षणयोः प्रत्यक्षस्य प्रवृत्तौ स्मरणप्रत्यभिज्ञानुमानानां वैफल्यम्। तत्र तेषां साफल्यानभ्युपगमात् , अतिव्यवहिते तदङ्गीकरणात् । न चाक्षणिकस्यात्मनोऽर्थग्राहकत्वे वगतबालवृद्धाद्यवस्थानामतीतानागतजन्मपरम्परायाः सकलभावपर्यायाणां चैकदैवोपलँम्भप्रसङ्गः, ज्ञानसहायस्यैवार्थग्राह-५ कत्वाभ्युपगमात् , तस्य च प्रतिबन्धकक्षयोपशमाऽनतिक्रमेण प्रादुर्भावानोक्तदोषानुषङ्गः।
न च द्रव्यग्रहणेऽतीताधवस्थानां ततोऽभिन्नत्वाद्रहणप्रसङ्गः; अभिन्नत्वस्य ग्रहणं प्रत्यनङ्गत्वात्, अन्यथा ज्ञानादिक्षणानुभवे सञ्चेतनादिवत् क्षणक्षयस्वर्गप्रापणशक्त्याद्यनुभवानुषङ्गः । तस्मा-१० द्यत्रैवास्य ज्ञानपर्यायप्रतिबन्धापायस्तत्रैव ग्राहकत्वनियमो नान्यत्रेत्यनवद्यम्-'आत्मा प्रत्यक्षसहायोऽनन्तरातीतानागतपर्याययोरेकत्वं प्रतिपद्यते' इति, स्मरणप्रत्यभिज्ञानसहायश्चातिव्यवहित. पर्यायेष्वपि । तयोश्च प्रामाण्यं प्रांगेव प्रसाधितम् ।
ननु स्मरणप्रत्यभिज्ञानयोः पूर्वोपलब्धार्थविषयत्वे तद्दर्शनकाल १५ एवोत्पत्तिप्रसङ्गः, तदर्शनवत्तद्विषयत्वेनानयोरप्यविकलकारणत्वात्, न चैवम् , तस्मान्न ते तद्विषये । प्रयोगः-यस्मिन्नविकलेपि यन्न भवति न तत्तद्विषयम् यथा रूपेऽविकले तत्राभवच्छोत्रविज्ञानम् , न भवतोऽविकलेपि च पूर्वोपलब्धार्थे स्मृतिप्रत्यभिशाने इति; तदप्यपेशलम् । तदर्शनकाले तयोः कारणाभावे-२० नाऽप्रादुर्भावात् । न ह्यर्थस्तयोः कारणम् ; ज्ञानं प्रति कारणत्वस्यार्थे प्रांगेव प्रतिषेधात् । स्मरणं हि संस्कारप्रबोधकारणम् ,
१ प्रत्यक्षादिसहाय इत्यत्रादिग्रहणं निरर्थकमित्युक्ते आह । २ घटकपाललक्षणयोः । ३ जैनेन । ४ नित्य आत्मातीतानागतपर्यायानेकदैव ग्रहीष्यतीत्युक्ते आह । ५ अङ्गीक्रियमाणे जैनैः । ६ स्वतोऽभिन्नानां पर्यायाणाम् । ७ जैनैः । ८ ज्ञानेन युगपगृही. ध्यतीत्युक्ते आह। ९ शानस्य । १० प्रतिबन्धकं कर्म। ११ युगपन्मरणावधि. ग्रहणलक्षण । १२ शानम् । १३ अकारणत्वात् । १४ संसारिणः । १५ पदार्थ । १६ तव सौगतस्य । ज्ञानादिलक्षणादभिन्नसद्भावात्। १७ घटकपाललक्षणयोः । १८ एकत्वं प्रतिपद्यते । १९ स्मृतिप्रत्यभिज्ञानयोः प्रामाण्यं न विद्यते, तत्सहाय आत्मातिव्यवहितपर्यायेषु कथमेकत्वं जानीयादित्युक्ते सत्याह। २० तृतीयाध्याये । २१ प्रत्यक्षेण। २२ स उपलब्धोर्थों विषयो ययोस्ते तत्वे। २३ प्रत्यक्ष । २४ स उपलब्धार्थों विषयो ययोस्ते। २५ अनुत्पाद्यमानत्वात्। २६ नार्थालोको कारणं परिच्छेद्यत्वात्तमोवदित्यत्र द्वितीयपरिच्छेदे । २७ तहिं स्मरणप्रत्यभिज्ञानयोः कारणं किमित्युक्ते आह ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org