________________
४९२ .
प्रमेयकमलमार्तण्डे [४. विषयपरि० किञ्च, विपरीतार्थव्यवस्थापकं प्रमाणं बाधकमुच्यते । प्रतिक्षणविनाशिपदार्थव्यवस्थापकत्वेन च प्रत्यक्षम्, अनुमानं वा प्रवर्त्ततान्यस्य प्रमाणत्वेन सौगतैरनभ्युपगमात् ? तत्र न तावत्प्रत्यक्षं तद्यवस्थापकम् । तत्र तथार्थानामप्रतिभासनात् । न हि ५प्रतिक्षणं त्रुट्यद्रूपतां विभ्राणास्तत्रार्थाः प्रतिभासन्ते, स्थिरस्थूलसाधारणरूपतयैव तत्र तेषां प्रतिभासनात् । न चान्यादृग्भूतः प्रतिभासोऽन्यादृग्भूतार्थव्यवस्थापकोऽतिप्रसङ्गात् ।
न च तत्र तथा तेषां प्रतिभासेपि सदृशापरापरोत्पत्तिविप्रलम्भाद्यथानुभवं व्यवसायानुपपत्तेः स्थिरस्थूलादिरूपतया व्यव१. सायः; इत्यभिधातव्यम् ; अनुपहतेन्द्रियस्यान्यादृग्भूतार्थनिश्चयो. त्पत्तिकल्पनायां प्रति नियतार्थव्यवस्थित्यभावानुषङ्गात् । नीलानु-. भवेपि पीतादिनिश्चयोत्पत्तिकल्पनाप्रसङ्गात् । तथा च "यत्रैव जनयेदेनों तत्रैवास्य प्रमाणता" [ ] इत्यस्य विरोधः। ततो यथाविधार्थाध्यवसायी विकल्पस्तथाविधार्थस्यैवानुभवो १५ग्राहकोभ्युपगन्तव्यः । न चार्थस्य प्रति क्षण] विनाशित्वातंत्सामर्थ्यबलोद्भूतेनाध्यक्षेणापि तद्रूपमेवानुकरणीयमिति वाच्यम् । इतरेतराश्रयानुषङ्गात्-सिद्धे हि क्षणक्षयित्वेऽर्थानां तत्सामर्थ्याविनाभाविनोध्यक्षस्य तद्रूपानुकरणं सिद्ध्यति, तत्सिद्धौ च क्षण
क्षयित्वं तेषां सिध्यतीति । २० नाप्यनुमानं तद्राहकम् ; तंत्र प्रत्यक्षाप्रवृत्तावनुमानस्याप्रवृत्तेः। तथा हि-अध्यक्षाधिगतमविनाभावमाश्रित्य पक्षधर्मतावगमबलादनुमानमुदयमासादयति। प्रत्यक्षाविषये तु स्वर्गादाविवानुमानस्याप्रवृत्तिरेव।
किञ्च, अत्र खंभावहेतोः, कार्यहेतोर्वा व्यापारः स्यात् ? न २५ तावत्स्वभावहेतोः; क्षणिकस्वभावतया कस्यचिदर्थस्वभावस्यानिश्चयात्, क्षणिकत्वस्याध्यक्षागोचरत्वात् । अध्यक्षगोचरे एव ह्यर्थ स्वभावहेतोर्व्यवहृतिप्रवर्तनफलत्वम् , यथा विशददर्शनाव-. भासिनि तरौ वृक्षत्वव्यवहारप्रवर्त्तनफलत्वं शिशपायाः।
१ आगमादेः। २ विनश्यद्रूपताम् । ३ पटशानं घटव्यवस्थापकं स्यात् । ४ क्षणिकोयं क्षणिकोयमिति । ५ जायते । ६ निर्विकल्पकप्रत्यक्षं कर्तृ। ७ सविकल्पकां बुद्धिम् । ८ निर्विकल्पकस्य । ९ अतिप्रसङ्गो यतः। १० तस्य विनाश्यर्थस्य । ११ तस्य प्रतिक्षणं विनाश्यर्थस्य । १२ तथा च सति तथाविधार्थस्यैवानुभवो ग्राहको भविष्यतीत्यर्थः। १३ क्षणिकेर्थे । १४ दृष्टान्तधर्मिणि। १५ विनाशिपदार्थेन सह । १६ सत्त्वादिति । १७ दृष्टम् । १८ अयं वृक्षः शिंशपात्वादिति। .
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org