________________
४९०
प्रमेयकमलमार्तण्डे [४. विषयपरि० संस्कारश्च कालान्तराविस्मरणकारणलक्षणधारणारूपः, तद्दर्शनकाले नास्तीति कथं तदैवास्योत्पत्तिः प्रत्यभिज्ञानस्य वा? तदुत्पत्तौ हि देर्शनं पूर्वदर्शनाहितसंस्कारप्रबोधप्रभवस्मृतिसहायं प्रवर्तते, तच्च प्राग्नास्तीति कथं तदैव तदुत्पत्तिः ? । ५ अथ मतम्-आत्मनः केवलस्यैवातीताद्यर्थग्रहणसामर्थ्य स्मरणाद्यपेक्षावैयर्थ्यम्, तदसामर्थ्य वा नितरां तद्वैयर्थ्यम्, न खलु केवलं चक्षुर्विज्ञानं गन्धग्रहणेऽसमर्थ सत्तत्स्मृतिसहायं समर्थ दृष्टमिति तदप्यसङ्गतम् । यतः स्मरणादिरूपतया परिणतिरेवास्मनोऽतीताद्यर्थग्रहणसामर्थ्यम् , तत्कथं तदपेक्षावैयर्थ्यम् ? चक्षु. १०र्विज्ञानस्य तु गन्धग्रहणपरिणामस्यैवाभावान्न तत्स्मृतिसहायस्यापि गन्धग्रहणे सामर्थ्यमिति युक्तमुत्पश्यामः।
ततो निराकृतमेतत्-'पूर्वोत्तरक्षणयोरग्रहणे कथं तत्र स्थानुताप्रतीतिः' इति; आत्मना तयोर्ग्रहणसम्भवात् । भवतां तु तयोर
प्रतीतौ कथं मध्यक्षणस्य तत्राऽस्थास्नुताप्रतीतिरिति चिन्त्यताम् ? १५ पूर्वदर्शनाहितसंस्कारस्य मध्यक्षणदर्शनात्तत्क्षणस्मृतिस्तस्याश्च
'स इह नास्ति' इत्यस्थास्नुतावगमे स्थास्नुतावगमोप्येवं किन्न . स्यात् ?
ननु चास्थास्नुता पूर्वोत्तरयोर्मध्येऽभावः तस्य वा तंत्र, स च तदात्मकत्वात्तद्हणेनैव गृह्यते; तदप्यसारम् । तदप्रतीतौ तत्रास्य २० अत्र वा तयोर्निषेधस्याप्यसम्भवात् । न ह्यप्रतिपन्नघटस्य 'अत्र
घटो नास्ति' इति प्रतीतिरस्ति । कथं चैवं स्थास्तुता न प्रतीयेत? सापि हि पूर्वोत्तरयोर्मध्ये कथञ्चित्सद्भावस्तस्य वा तंत्र, सच तदात्मकत्वात्तद्हणेनैव गृह्येत ।
ननु स्थासुतार्थानां नित्यतोच्यते, सा च त्रिकालापेक्षा, तद२५ प्रतिपत्तौ च कथं तदपेक्षनित्यताप्रतिपत्तिः? तदसाम्प्रतम् वस्तु
खभावभूतत्वेनान्यानपेक्षत्वानित्यतायाः, तथाभूतायाश्चास्याः प्रत्यक्षादिप्रमाणप्रसिद्धत्वेन प्रतीतेः प्रतिपादनात् । न खलु स्वयं नित्यतारहितस्य त्रिकालेनासौ क्रियतेऽनित्यतावत् । न हि वर्त
१ कारणम् । २ द्वितीयम् । ३ तस्य प्रत्यक्षादिसहायरहितस्य । ४ क्षणिकबुद्ध्या । ५ अक्षणिकेन । ६ अयं मध्यक्षणस्तत्र नाभून्न भविष्यतीति प्रतीतिः। ७ परेण । ८ क्षण। ९ दर्शनम् अनुभवः । १० सकाशात् । ११ पूर्वदर्शनाहितसंस्कारस्य मध्यक्षणदर्शनात्तत्क्षणस्मृतिः, तस्याश्च स इह द्रव्यरूपेणास्तीति । १२ क्षणयोः । १३ क्षणे । १४ अभावः । १५ पूर्वोत्तरक्षणयोरभावात्मकत्वान्मध्यक्षणस्य । १६ द्रव्यरूपेण । १७ द्रव्यरूपेण। १८ द्रव्यरूपेण मध्यक्षगस्य । १९ अग्रे। २० पदार्थस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org