________________
प्रमेयकमलमार्तण्डे [४. विषयपरि० खसन्ततिनिवृत्तौ कार्यजनकत्वम् , यथा मृत्पिण्डः वयं निवर्तमानो घटमुत्पादयति, आहोखिदनेकस्मादुत्पद्यमाने कार्य स्वगतविशेषाधायकत्वम् , समनन्तरप्रत्ययत्वमात्रं वा स्यात् , नियमवदन्वयव्यतिरेकानुविधानं वा? प्रथमपक्षे कथञ्चित्सन्ताननिवृत्तिः, ५सर्वथा वा? कथञ्चिच्चेत्, परमतप्रसङ्गः। सर्वथा चेत्, परलो. काभावानुषङ्गो हानसन्तानस्य सर्वथा निवृत्तेः।
द्वितीयपक्षेपि किं खगतकतिपयविशेषाधायकत्वम्, सकलविशेषाधायकत्वं वा? तत्राद्यविकल्पे सर्वज्ञज्ञाने स्वाकारार्पकस्या
स्मदादिनस्य तत्प्रत्युपादानभावः, तथा च सन्तानसङ्करः। १० रुपस्य वा रुपज्ञानं प्रत्युपादानभावोनुषज्येत स्वैगतकतिपय विशेषाधायकत्वाविशेषात् । रूपोपादानत्वे च परलोकाय दत्तो जलाञ्जलिः । कतिपय विशेषाधायकत्वेनोपादानत्वे च एकस्यैव ज्ञानादिक्षणस्यानुवृत्तव्यावृत्ताऽनेकविरुद्धधर्माध्यासप्रसङ्गात् स
एव परमतप्रसङ्गः। द्वितीयविकल्पे तु कथं निर्विकल्पकाद्विकल्पो१५त्पत्तिः रूपाकारान्समनन्तरप्रंत्ययाद्रसाकारप्रत्ययोत्पत्तिा, खग
तसकलविशेषाधायकत्वाभावात् ? सन्तानबहुत्वोपैगमात्सर्वस्य स्वसदृशादेवोत्पत्तिरित्यभ्युपगमे तु एकस्मिन्नपि पुरुषे प्रमातृवहुवापत्तिः। तथा च गवाश्वादिदर्शनयोभिन्नसन्तानत्वादेकेन दृष्टेथे पैरस्यानुसन्धानं न स्यादेवदत्तेन दृष्टे यज्ञदत्तवत् । - १ (ज्ञानं प्रति ) इन्द्रियार्थालोकादिकारणकलापात् । (घटं प्रति ) मृदादिकारणकलापात्। २ ज्ञानलक्षणे घटादौ वा। ३ पर्यायरूपेण । ४ द्रव्यरूपेणापि । ५ तथैव जैनानामपीष्टत्वात् । ६ एकजन्मनि वर्तमानस्य, उत्तरोत्तरशानसन्तान एवात्मेति वचनात् । ७ किञ्चिशत्वं वर्जयित्वाऽन्यान् चेतनत्वादिज्ञानगतविशेषान् समर्पयतीति भावः। ८ सहकारिकारणभूतस्य । ९ अस्मदादिशानं यदा सर्वशो विषयीकरोति तदा तत्स्वाकारं कतिपयं समर्पयति यतः। १० सहकारिकारणभूतस्य । ११ कार्यभूतम् । १२ कतिपयविशेषाः रूपगतजडत्वं वर्जयित्वा स्वगतश्वेतपीताधाकारविशेषाः। १३ रूपशानस्य । १४ अचेतनरूपादुपादानाच्चैतन्योत्पत्तिर्यतः । १५ रूपं रूपज्ञाने रूपं समर्पयति न तु जडत्वम् । १६ आदिना अर्थादि । १७ अर्पितानपितादिविशेषापेक्षयाऽनुवृत्तव्यावृत्तरूप । १८ अनेकान्तात्मकत्वाज् शानस्य। १९ उत्तरनिर्विकल्पकज्ञानस्योपादानात्सविकल्पकस्य सहकारिकारणात् । २० रूपशानादुत्तररूपज्ञानस्योपादानादुत्तररसशानस्य सहकारिकारणात् । २१ एकस्मिन्पुरुषे। २२ निर्विकल्पकस्य निर्विकल्पकमुपादानं सविकल्पकस्य सविकल्पकमुपादानमिति भावः। २३ शानसन्तानस्य बहुत्वात् । २४ गोदर्शनेन । २५ अश्वादिदर्शनस्य । २६ य एवाई पूर्व गामद्राक्षं स एवाहमिदानीमश्वं पश्यामीति क्रमेण, युगपदश्वगावो पश्यामीत्यक्रमेण च ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org