________________
सामान्यस्वरूप विचारः
जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥ २ ॥ " [ प्रमाणवा० ११४१-४२ ] इति ।
सू० ४/५ ]
ननु सादृश्ये सामान्ये ' स एवायं गौः' इति प्रत्ययः कथं शबलं दृष्ट्ा धवलं पश्यतो घटेतेति चेत् ? 'एकत्वोपचारात्' इति ब्रूमः । द्विविधं ह्येकत्वम् - मुख्यम्, उपचरितं च । मुख्यमात्मादिद्रव्ये ॥५ सादृश्ये तूपचरितम् । नित्य सर्वगतस्वभावत्वे सामान्यस्यानेकदोषदुष्टत्वप्रतिपादनात् ।
'तेन समानोयम्' इति प्रत्ययश्च कथं स्यात् ? तयोरेकसामान्ययोगाच्चेत्; न; 'सामान्यवन्तावेतौ' इति प्रत्ययप्रसङ्गात् । तयोरभेदोपचारे तु 'सामान्यम्' इति प्रत्ययः स्यात्, न पुनः 'तेन १० समानोयम्' इति । यष्टिपुरुषयोरभेदोपचाराद्यष्टिसहचरितः पुरुषो 'यष्टिः' इति यथा ।
४८१
ननु 'व्यक्तिर्वत्समानपरिणामेष्वपि समानप्रत्ययस्यापरसमानपरिणामहेतुकत्वप्रसङ्गादनवस्था स्यात् । तमन्तरेणाप्यत्र समान - प्रत्ययोत्पत्तौ पर्याप्तं खण्डादिव्यक्तौ समान परिणाम कल्पनया १५ इत्यन्यत्रापि समानम् - विसदृशपरिणामेष्वपि हि विसदृशप्रत्ययो यदि तदन्तरहेकोऽनवस्था । स्वभावतश्चेत्; सर्वत्र विसदृशपरिणामकल्पनानर्थक्यम् ।
;
न च सदृशपरिणामानामर्थवत्स्वात्मन्यपि समानप्रत्ययहेतुत्वे अर्थानामपि तत्प्रसङ्गः प्रतिनियतशक्तित्वाद्भावानाम्, अन्यथा घटादेः प्रदीपात्स्वरूपप्रकाशोपलम्भात्प्रदीपेपि तत्प्रकाशः प्रदीपान्तरादेव स्यात् । स्वकारणकलापादुत्पन्नाः सर्वेऽर्था विसदृशप्रत्ययविषयाः स्वभावत एवेत्यभ्युपगमे समानप्रत्ययविषयास्ते तथा किं नाभ्युपगम्यन्ते अलं प्रतीत्यपलापेन ?
१ सामान्यभेदाः । २ वासनातः । ३ ते खण्डादिकर्कादयश्च विशेषाश्च तानवगाहन्ते इत्येवंशीलाः । ४ विशेष एव सन्ति न सामान्यमिति भावः । ५ जैनेनागीक्रियमाणे सादृश्ये सामान्ये सति । ६ स एवायमात्मादिः पदार्थ इति । ७ सास्त्रादिमत्त्वेन । ८ भवतां मीमांसकानाम् । ९ खण्डमुण्डयोः शबलधवलयोर्वा । १० सामान्यतद्वतोः । ११ परेणाङ्गीक्रियमाणे । १२ इदं ( व्यक्तिः ) सामान्यमिति । १३ कुन्ताः प्रविशन्ति अश्वा आगच्छन्तीत्यादिवद्वा । १४ व्यक्तिर्यथा सादृश्य परिणामात्तेन मुण्डेन सदृशः खण्ड इत्यादि । १५ समान इति परिणामेषु । १६ विसदृश परिणाम पक्षेपि । १७ अपरविसदृश । १८ तहींति शेषः । १९ विशेषरूपाणाम् । २० स्वात्मनि समानप्रत्यय हेतुत्वप्रसङ्गः । २१ प्रतिनियतशक्तित्वाभावात् । सौगतेन 1
२२
प्र० क्र० मा० ४१
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org