________________
सू० ३३१०१] स्फोटवादः
४५५ स्थापकः, अस्यापि मूर्त्तद्रव्यवृत्तित्वात्, स्फोटस्य चाऽमूर्त्तत्वा. भ्युपगमात्।
किञ्च, असौ संस्कारः स्फोटखरूपः, तद्धर्मों वा? तत्राद्यविकल्पोऽयुक्तः, स्फोटस्य वर्णोत्पाद्यत्वानुषङ्गात् । द्वितीय विकल्पोऽ. सम्भाव्यः, व्यतिरिक्ताव्यतिरिक्तविकल्पानुपपत्तेः । स्फोटात्तस्या-५ व्यतिरेके तत्करणे स्फोट एव कृतो भवेत् , तथा चास्याऽनित्यत्वानुषङ्गात् स्वाभ्युपगमविरोधः । ततस्तद्धर्मस्य व्यतिरेके संम्बन्धानुपपत्तिः तदनुपकारकत्वात्। तस्योपकाराभ्युपंगमे व्यतिरिक्ताऽव्यतिरिक्त विकल्पानुषङ्गः, तत्रापि पूर्वोक्त एव दोषोऽनवस्थाकारी। न च व्यतिरिक्तधर्मसद्भावेपि स्फोटस्यानभिव्यक्तखरूपापरित्यागे १० पूर्ववदर्थप्रतिपत्तिहेतुत्वम् । तत्त्यागे चाऽनित्यत्वप्रसक्तिः।
किञ्च, पूर्ववर्णैः संस्कारः स्फोटस्य क्रियमाणः किमेकदेशेन क्रियते, सर्वात्मना वा? यद्येकदेशेन; तदा तद्देशानामप्यतोर्थान्तरानर्थान्तरपक्षयोः पूर्वोक्तदोषानुषङ्गः । सर्वात्मना तु संस्कारे सर्वत्र सर्वेषां ततोऽर्थप्रतिपत्तिः स्यात् ।
किञ्च, स्फोटसंस्कारः स्फोटविषयसंवेदनोत्पादनम् , आव. रणापनयनं वा? यद्यावरणापनयनम् । तदैकत्रैकदावरणापगमे सर्वदेशावस्थितैः सर्वदा व्यापिनित्यतयोपलभ्येत, नित्यव्यापित्वाभ्यामपगतावरणस्यास्य सर्वत्र सर्वदोपलभ्यस्वभावत्वात् । अनुपलभ्यस्वभावत्वे वा न कचित्कदाचित्केनचिदप्युपलभ्येत । अथैक-२० देशेनौवरणापगमः क्रियते; नन्वेवमावृतानावृतत्वेन सावयवत्वमस्यानुषज्येत । अथाऽविनिर्भागत्वौदेकत्रानावृतः सर्वत्रानावृतोऽभ्युपगम्यते; तर्हि तैदवस्थोऽशेषदेशावस्थितरुपलब्धिप्रसङ्गः । यथा च निरवयत्वादेकत्रानावृतः सर्वत्रानावृतः तथैकत्रावृतः सर्वत्राप्यावृत इति मैनागपि नोपलभ्येत ।
१७
१ स्थितस्थापकरूपकस्य । २ मीमांसकेन । ३ तथा च स्फोटनित्यत्वव्याघातः । ४ स्फोटेन सह । ५ स्फोटधर्मलक्षणसंस्कारेण स्फोटस्योपकारः क्रियते । ६ परेण। ७ स्फोटात् । ८ धर्मः संस्कारः। ९ संस्कारात्पूर्व यथाऽकृतसंस्कारस्य स्फोटस्यार्थप्रतिपत्तिहेतुत्वं नास्ति । १० घटते। ११ अन्यथा। १२ स्फोटोऽनित्यः पूर्वाकारपरित्यागात् घटाकारपरिणतमृत्पिण्डवत् । १३ स्फोटस्य । १४ प्राणिनाम्। १५ व्यापकत्वनित्यत्वात् । १६ प्रतिपत्तृणाम् । १७ एकस्थानेक। १८ स्फोटकाले । १९ नरेण। २० नित्यव्यापिनः सदैकस्वभावत्वात् । २१ न सर्वात्मना। २२ ततश्च निरंशत्वव्याघातः । स्फोटो न निरंश आवृताऽनावृतदेशत्वात् । २३ निरंशत्वात् । २४ मीमांसकेन । २५ पूर्ववत् । २६ नृभिः। २७ ईषत् । २८ स्फोटः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org