________________
सू० ३।१०१] स्फोटवादः
४५३ न्यस्य गकारौकारविसर्जनीयेष्वसम्भवात्, वर्णत्वस्य च प्रतिनियतार्थप्रत्यायकत्वायोगात् । न चेयं भ्रान्ता; अबाध्यमानत्वात् । न चाबाध्यमानप्रत्ययगोचरस्यापि स्फोटस्यासत्त्वम् ; अवयविद्रव्यादेरप्यसत्त्वप्रसङ्गात् । नित्यश्चासौ स्फोटोऽभ्युपगन्तव्यः । अनित्यत्वे सङ्केतकालानुर्भूतस्य तदैव ध्वस्तत्वात्कालान्तरे देशा-५ न्तरे च गोशब्दश्रवणात्ककुदादिमदर्थप्रतीतिर्न स्यात् , असङ्केतिताच्छब्दादर्थप्रतिपत्तरसम्भवात् । सम्भवे वा द्वीपांन्तरादागतस्य गोशब्दाद्वार्थप्रतिपत्तिः स्यात् , सङ्केतकरणवैयर्थ्य चासज्येत । __ अत्र प्रतिविधीयते । प्रतीयमानात्पूर्ववर्णध्वंसविशिष्टादन्त्यवर्णादर्थप्रतीतेरभ्युपंगमादुक्तदोषांभावः । न चाभावस्य सहकारित्वं १० विरुद्धम् ; वृन्तफलसंयोगाभावस्य अप्रतिबद्धगुरुत्वफलप्रपातक्रियाजनने तद्दर्शनात् , दृष्टं चोत्तरसंयोगं कुर्वत्प्राक्तनसंयोगाभावविशिष्टं कर्म, परमाण्वग्निसंयोगश्च परमाणौ तद्गतपूर्वरूपैप्रध्वंसविशिष्टो रक्ततामुत्पादयन्प्रतीतः।।
यद्वा, पूर्ववर्ण विज्ञानाभावविशिष्टः तज्ज्ञानजनितसंस्कारसव्य-१५ पेक्षो वाऽन्त्यो वर्णोऽर्थप्रतीत्युत्पादकः । ननु संस्कारस्य कथं. विषयान्तरे विज्ञानजनकत्वम् ; इत्यप्यचोद्यम् तद्भावभावितयार्थप्रतीतेरुपलब्धेः।
पूर्ववर्णविज्ञानप्रभवसंस्कारश्च प्रैणालिकयाऽन्त्यवर्णसहायतां प्रतिपद्यते; तथाहि-प्रथमवणे तावद्विज्ञानम् , तेन च संस्कारो २० जन्यते। ततो द्वितीयवर्णविज्ञानम् , तेन च पूर्वज्ञानाहितसंस्कार सहितेन विशिष्टः संस्कारो जन्यते । एवं तृतीयादावपि योजनीयं यावदन्त्यः संस्कारोऽर्थप्रतिपत्तिजनकान्त्यवर्णसंहायः।
अथवा, शब्दार्थोपलब्धिनिमित्तक्षयोपशमप्रति नियमादविनष्टी एव पूर्ववर्णसंविदस्तत्संकारीश्वाऽन्त्यवर्णसंस्कारं विदधति ।२५
१ गवादेः । २ रफोट एव प्रतिनियतार्थप्रत्यायको यतः। ३ अर्थः गोलक्षणः, तस्य, ककुदादिमतोर्थस्य च। ४ (घटवाचकघटशब्दे )धकारादावपि वर्णत्वस्य सत्त्वात् । ५ श्रोत्रप्रत्यक्षशानेन। ६ प्रत्यक्षज्ञानगोचरस्य घटादेः। ७ स्फोटस्य । ८ स्फोटात् । ९ गोरहितात् । १० तथा च । ११ श्रयमाणात्। १२ वाक्यपक्षे वर्णस्थाने पदं ग्राह्यम्। १३ जैनैः। १४ पूर्ववर्णोच्चारणादिवैयर्थ्यलक्षण उक्तदोषः। १५ शाखादिना। १६ बसः। १७ तस्य कारणत्वस्य । १८ श्येनादेः। १९ गमनक्रिया। २० कृष्णादिरूप। २१ घटादौ। २२ पक्षेऽन्त्यपदम् । २३ पूर्ववर्णानाम् । २४ गोपिण्डे । २५ प्रवाहेण । २६ पक्षे प्रथमपदे । २७ समुत्पद्यते। २८ उभयविषयः, धारणापरनामकः । २९ भवति । ३० द्रव्यत्वस्वरूपापेक्षया । ३१ ये अविनष्ठाः।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org