________________
४७०
प्रमेयकमलमार्तण्डे [४. विषयपरि०, समानाकारानुभवात् , एकप्रत्यवमर्शहेतुत्वेनाभिमतानां निर्विकल्पकबुद्धीनामप्रसिद्धेश्च । अतोऽयुक्तमेतत्
"एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभैदिनी। .... एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता॥"
[प्रमाणवा० २११०] इति । ततोऽबाधबोधाधिरूढत्वात्सिद्धं सदृशपरिणामरूपं वस्तुभूत सामान्यम् । तस्याऽनभ्युपगमे
"नो चेद्धान्तिनिमित्तेनं संयोज्येत गुंणान्तरम् । शुक्तौ वा रंजताकारो रूपसौधर्म्यदर्शनात् ॥"
[प्रमाणवा० २४५] इत्यस्य, "अर्थेन धैटयंत्येनां न हि मुक्त्वार्थरूपताम् । तस्मात्प्रमेयो(या)ऽधिगतेः प्रमाणं मेयरूपंता॥"
[प्रमाणवा० ३३०५] इत्यस्य च विरोधानुषङ्गः। १५ तच्चाऽनित्यासर्वगतस्वभावमभ्युपगन्तव्यम्; नित्यसर्वगत
खभावत्वेऽर्थक्रियाकारित्वायोगात् । न खलु गोत्वं वाहदोहादा. वुपयुज्यते, तत्र व्यक्तीनामेव व्यापाराभ्युपगमात् । . स्वविषयज्ञानजनकत्वेपि व्यापारोस्य केवलस्य, व्यक्तिसहितस्य
वा? केवलस्य चेत् ; व्यक्त्यन्तरालेप्युपलम्भप्रसङ्गः। व्यक्तिसहि२० तस्य चेत् ; किं प्रतिपन्नाखिलव्यक्तिसहितस्य, अप्रतिपन्नाखिल
व्यक्तिसहितस्य वा? तत्राद्यपक्षोऽयुक्तः, असर्वविदोऽखिल व्यक्तिप्रतिपत्तेरसम्भवात् । द्वितीयपक्षे पुनः एकव्यक्तेरप्यग्रहणे
• १ सौगतेन। २ उपचरितोपचारोपि श्रद्धामात्रगम्यो यतः । ३ निर्विकल्पिका बुद्धिः। ४ एका। ५ परेण। ६ चेत्पक्षान्तरसूचकम् । इति हेतोः स्वलक्षणे भ्रान्तिनिमित्तेनाक्षणिकत्वं नो संयोज्येत चेत्तहिं स्वलक्षणस्य परमार्थभूतमक्षणिकत्वं स्यात् स्वलक्षणस्य क्षणिकत्वसियर्थ सर्व क्षणिकं सत्त्वादित्यनुमानं च व्यर्थ स्यादिति भावः। ७ परमार्थभूतसदृशापरापरोत्पत्तिलक्षणेन । ८ पुरुषेण । ९ क्षणिके स्वलक्षणे वस्तुनि । १० अक्षणिकत्वलक्षणम्। ११ वायथार्थकः। १२ अपरमार्थभूतः । १३ परमार्थभूतरूपसादृश्यदर्शनात् । १४ ग्रन्थस्य । १५ विषयविषयिभावं न कार: यतीत्यर्थः। १६ निर्विकल्पकबुद्धिम्। १७ अन्यत्संन्निकर्षादि कर्त। १८ पदार्थ सादृश्याकारधारित्वम् । १९ उभाभ्यां श्लोकाभ्यां परस्य सादृश्याङ्गीकारो विद्यत इति सूचितम् । २० सामान्यस्य । २१ व्यक्तिरहितं केवलम् । २२ पुरुषं प्रति ।
२३ सामान्यस्य । न च तथा। Jain Educationa International
For Personal and Private Use Only . . www.jainelibrary.org