________________
सू० ४/५ ]
सामान्यस्वरूप विचारः
४७१
सामान्यज्ञानानुषङ्गः । प्रतिपन्नकतिपयव्यक्तिसहितस्य जनकत्वे तु तस्य ताभिरुपकारः क्रियते, न वा ? प्रथम पक्षे सामान्यस्य व्यक्तिकार्यता, तदभिन्नोपकारकरणात् । ततो भिन्नस्यास्य करणे 'तस्य' इतिव्यपदेशासिद्धिः । तत्कृतोपकारेणाप्युपकारान्तरेकरणेऽनवस्था । द्वितीयपक्षे तु व्यक्तिसहभाववैयर्थ्यम् सामा• ५ न्यस्य, अकिञ्चित्करस्य सहकारित्वासम्भवात् ।
सामान्येन सहैकैज्ञानजनने व्यापाराद्व्यक्तीनां तत्सहकारित्वेपि किमालम्बनभावेन तत्र तासां व्यापारः, अधिपतित्वेन वा ? प्राच्यकल्पनायाम् एकमनेकाकारं सामान्यविशेषज्ञानं सर्वदा स्यात्, स्वालम्बनानुरूपत्वात्सकलविज्ञानानाम् ।
१०
द्वितीयविकल्पे तु व्यक्तीनामनधिगमेपि सामान्यज्ञानप्रसङ्गः । न खलु रूपज्ञाने चक्षुषोधिगतस्याधिपतित्वेन व्यापारो दृष्टः अदृष्टस्य वा सर्वथा नित्यवस्तुनः क्रमाक्रमाभ्यामर्थक्रियाविरोधाच्चास्य न कस्याञ्चिदर्थक्रियायां व्यापारः । व्यापारे वा सहकारिनिरपेक्षितया सदा कार्यकारित्वानुषङ्गः, तदवस्थाभाविनः १५ कार्यजनन स्वभावस्य सदा सम्भवात्, अभावे च अनित्यत्वं स्वभावभेदलक्षणत्वात्तस्य । कार्याजननस्वभावत्वे वा अस्य सर्वदा कार्याजनकत्वप्रसङ्गः । यो हि यदऽजनकस्वभावः सोन्यस हितोपि न तज्जनयति यथा शालिबीजं क्षित्याद्यविकलसामग्रीयुक्तं कोद्रघाङ्कुरम्, अजनकस्वभावं च सामान्यं कार्यस्य इत्यवस्तुत्वापत्ति २० र्नित्यैकस्वभावसामान्यस्य, अर्थक्रियाकरित्वलक्षणत्वाद्वस्तुनः ।
93
तथा तत्सर्वर्संर्वगतम्, स्वव्यक्तिसर्वगतं वा ? न तावत्सर्वसर्वगतम् व्यक्तयन्तरालेऽनुपलभ्यमानत्वाद्व्यक्तिस्वात्मवत् । तत्रानुपलम्भो हि तस्याऽव्यक्तत्वात्, व्यवहितत्वात्, दूरस्थित
;
१ न विशेषज्ञानानुषङ्गः, न च तथा - विशेषमन्तरेण सामान्याप्रतीतेः । २ अयमुपकारः सामान्यस्येति । ३ सम्बन्धसिद्ध्यर्थम् । ४ गौगौरित्यादि । ५ सामान्यस्यैकत्वादेकं सामान्यज्ञानम् । ६ व्यक्तीनामनेकत्वादने काकारम् । ७ अपरिज्ञाता व्यक्तयः सामान्यज्ञानं कथं जनयन्तीत्युक्ते सत्याद्दाचार्यः । ८ चक्षुर्धर्मस्य । ९ सामान्यलक्षणस्य । १० स्वविषयज्ञानलक्षण । ११ तदवस्था = सहकारिरहितत्वम् । १२ कूटस्थ नित्यसामान्यस्य । १३ सामान्यं कार्यजनकं न भवति तदजनकत्वादित्यध्याहृत्य । १४ सहकारिकारण । १५ अर्थों घटादिः तस्य क्रिया कार्यत्वं जन्यत्वमिति यावत्, तां करोति यः पदार्थों मृत्पिण्डलक्षण: सोर्थक्रियाकारी, तस्य भावस्तत्त्वम्, तस्मात् । १६ सर्वासु स्वसम्बन्धिखण्डमुण्डादिव्यक्तिषु ।
१७ स्वव्यक्तौ
विवक्षितैकव्यक्तौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org