________________
सू० ३३१०१] स्फोटवादः
४५१ खवचनविरोधात् । शब्देन हि स्खलक्षणं प्रतिपादयता निर्देश्यत्वमस्याभ्युपगतं स्यात्,पुनश्च तदेव प्रतिषिद्धमिति। कथं चानिदेश्यशब्देनाप्यस्यानभिधाने अनिर्देश्यत्वसिद्धिः? भ्रान्तिमात्रात् ततस्तत्सिद्धौ न परमार्थतस्तदनिर्देश्यमसाधारणं वा सिद्धयेत् । प्रत्यक्षात्तथाभूतस्यास्य प्रसिद्धिः; इत्यपि मनोरथमात्रम् । निर्देश ५ योग्यस्य साधारणासाधारणरूपस्य वस्तुनस्तेन साक्षात्करणात् । 'वस्तुव्यतिरेकेण नापरा निर्देश्यता साधारणता वा प्रतिभाति' ईत्यसाधारणतायामपि समानम्। वस्तुस्वरूपमेव सा' इत्यन्यत्रापि
समानम् ।
किञ्च, विकल्पप्रतिभास्यऽन्यापोहगता वाच्यता वस्तुनि प्रति-१० षिध्यते, वस्तुगता वा ? आद्यविकल्पे सिद्धसाध्यता । न ह्यन्यापोहवाच्यतैव वस्तुवाच्यता; तत्प्रतिषेधविरोधात् । द्वितीयपक्षे तु स्ववचनविरोध इत्युक्तम् । ततः प्रामाणिकत्वमात्मनोऽभ्युपगच्छता प्रतीतिसिद्धा वाच्यतार्थस्याभ्युपगन्तव्या ।
सत्यम्; वाच्य एवार्थः। तद्वाचकस्तु पदादिस्फोट एव, न१५ पुनर्वर्णाः। ते हि किं सैमस्ताः, व्यस्ता वा तद्वाचकाः? यदि व्यस्ता तदैकेनैव वर्णेन गवाद्यर्थप्रतिपत्तिरुत्पादितेति द्वितीयादिवर्णोच्चा. रणमनर्थकम् । अथ समुदिता, तन्न; क्रमोत्पन्नानामन्तरविनष्टत्वेन समुदायस्यैवासम्भवात् । न च युगपदुत्पन्नानां तेषां समुदायकल्पना; एकपुरुषापेक्षया युगपदुत्पत्त्यसम्भवात्, प्रतिनियत-२० स्थानकरणप्रयत्नप्रभवत्वात्तेषाम् । न च भिन्नपुरुषप्रयुक्तगकारौकारविसर्जनीयानां समुदायेप्यर्थप्रतिपादकं प्रतिपन्नम्। प्रतिनियतवर्णक्रमप्रतिपत्त्युत्तरकालभावित्वेन शाब्दप्रतिपत्तेः प्रतिभासनात्।
१ इति । २ इदं खलक्षणमनिर्देश्यमिति अकथने। ३ वलक्षणस्य । ४ निर्विकल्पकात् । ५ शब्देन । ६ खलक्षणव्यतिरेकेण साधारणतापि पृथक् नो भातीति । ७ निर्देश्यतायां साधारणतायां च । ८ वस्तुस्वरूपत्वम् । ९ बुद्धि । १० शब्देन । ११ स्वलक्षणे। १२ खलक्षणमनिर्देश्यमित्यनेनोल्लेखेन। १३ बुद्धिप्रतिविम्बरूपस्यान्यापोहगतस्य (वाच्यत्वस्य) स्खलक्षणेऽस्माभिरपि प्रतिषेधाभ्युपगमात् । १४ वस्तुनि अन्यापोहवाच्यता विद्यते चेन्न तहिं प्रतिषेधः । कथमिति विरोधः। १५ शम्देन होत्यादि । १६ शब्देन। १७ लब्धावसरो मीमांसकोऽवतिष्ठते । १८ शग्दैः। १९ वर्णादिनाभिव्यज्यमानो नित्यो व्यापकः पदादीनामर्थः पदादिस्फोटः। २० तदेव भावयति। २१ गौरित्यत्र गकारौकारविसर्जनीयाः गकारादिना। २२ हेतोः। २३ औकारादि । २४ उत्पत्तः। २५ ताल्वादि । २६ क्रिया ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org