________________
सू० ३।९९] शब्दनित्यत्ववादः चीनम् ; सादृश्येन ततोऽप्रतिपत्तेः । न हि सदृशतया शब्दः प्रतीयमानो वाचकत्वेनाध्यवसीयते किन्त्वेकत्वेन । य एव हि सम्बन्धग्रहणसमये मया प्रतिपन्नः शब्दः स एवायमिति प्रतीतेः।
किञ्च, सादृश्यादर्थप्रतीतौ भ्रान्तः शाब्दः प्रत्ययः स्यात् । न ह्यन्यस्मिन्नगृहीतसङ्केतेऽन्यस्मादर्थप्रत्ययोऽभ्रान्तः, गोशब्दे ५ गृहीतसङ्केतेऽश्वशब्दाद्वार्थप्रत्ययेऽभ्रान्तत्वप्रसङ्गात् । न च भूयोऽवयवसाम्ययोगस्वरूपं सौदृश्यं शब्दे सम्भवति; विशिष्टवर्णात्मकत्वाच्छब्दानां वर्णानां च निरवयवत्वात् । न च गत्वादिविशिष्टानां गाँदीनां वाचकत्वं युक्तम् । गत्वादिसामान्यस्याऽभावात् , तदभावश्च गादीनां नानात्वायोगात्, सोपि प्रत्यभिज्ञया १० तेषामेकत्वनिश्चयात् । न चात्र प्रत्यभिज्ञा सामान्यनिवन्धना; भेदैनिष्टस्य सामान्यस्यैव गौदिष्वसम्भवात् ।
किञ्च, गत्वादीनां वाचकत्वम् , गादिव्यक्तीनां वा? न तावद्गत्वादीनाम् ; नित्यस्य वाचकत्वेऽस्सन्मताश्रयणप्रसङ्गात् । नापि गादिव्यक्तीनाम् ; तथा हि-गादिव्यक्तिविशेषो वाचकः, व्यक्तिमात्रं वा ११५ न तावद्गादिव्यक्तिविशेषः, तस्यानन्वयात् । नापि व्यक्तिमात्रम्; तद्धि सामान्यान्तःपाति, व्यत्यन्तर्भूतं वा? सामान्यान्तःपातित्वे स एवास्मन्मतवेशः । व्यत्यन्तर्भूतत्वे तद्वस्थोऽनन्वयदोष इति। ततोऽर्थप्रतिपादकत्वान्यथानुपपत्तेर्नित्यः शब्दः। तदुक्तम्__ "अर्थापत्तिरियं चोक्ता पक्षधर्मादिवर्जिती।
१ उत्तरः। २ एकत्वान्नित्यत्वम् । ३ ज्ञानम्। ४ शब्दे । ५ शब्दात् । ६ अन्यत्वाऽविशेषात्। ७ अन्यथा । ८ नष्टे सति । ९ गृहीतसङ्केतशब्दस्य नष्टत्वात् । १० बहु । ११ सम्बन्ध । १२ सामान्यम् । १३ सादृश्यधर्मरहितैकत्वधर्मः, स एवं विशेषस्तनोपलक्षितो वर्णः, स आत्मा स्वरूपं यस्य शब्दस्य । १४ वर्णानां पुद्गलात्मकत्वात् शब्दस्य च वर्णात्मकत्वाच्छन्दे तथाविधं सादृश्यं भविष्यतीत्यारेकायामाह । १५ निरंशत्वात् । अंशाभावे किं केन सादृश्यं स्यात् ।। १६ अत्वादिना च । १७ अकारादीनां च। १८ अनेकसमवेतस्वात्सामान्यस्य । १९ स एवायं गकार इति । २० गत्वादि । २१ विशेष। २२ अभेदरूपेषु। २३ गकार एक एवेति गभेदाभावात् । २४ सामान्यरूपाणाम्। २५ अन्यथानुपपत्तिरसिद्धत्युक्ते आह । २६ गोपिण्डस्य । २७ मीमांसक । २८ सङ्केतकाले गृहीतस्य शब्दस्य व्यवहारकाले आगमनाभावात् सङ्केतव्यवहारशब्दयो दो यतः। २९ सामान्यस्य नित्यत्वात् । ३० विपक्षेऽनित्यत्वे शम्दस्यार्थप्रतिपादकत्वं न घटते यतः । ३१ वाचकसामर्थ्यमित्यर्थः ३२ आदिना सपक्षे सत्वम् । ३३ अर्थापत्तौ पक्षधर्मादीनां प्रयोजनं
नास्ति यतः। Jain Educationa International
www.jainelibrary.org
For Personal and Private Use Only