________________
सू० ३।१०१]
अपोहवादः
४४३
तत्रानन्त्येन सङ्केतासम्भवीच्च । विकल्पबुद्धावभ्याहृत्य तेषु सङ्केताभ्युपगमे विकल्पसमारोपितार्थविषय एव शब्दसङ्केतः, न परमार्थ वस्तुविषयः स्यात् । स्थिरैकरूपत्वाद्धिमाचलादिभावानां सङ्केतव्यवहारकालव्यापकत्वेन संमयसम्भवोप्यसम्भाव्यः तेषामप्यनेकाणुप्रचयस्वभावानां प्रादुर्भावांनन्तरमेवापवर्गितया तद्- ५ सम्भवात् ।
किञ्च, एतेषु समयः क्रियमाणोऽनुत्पन्नेषु क्रियेत, उत्पन्नेषु वा ? न तावदनुत्पन्नेषु परमार्थतः समयो युक्तः; असतः सर्वोपाख्यारहितस्याधारत्वानुपपत्तेः । नाप्युत्पन्नेषुः तस्यार्थानुभवशब्दस्मरणपूर्वकत्वात्, शब्दस्मरणकाले चार्थस्य प्रध्वंसात् । १० सर्वेषां स्वलक्षणक्षणानां सादृश्यमैक्येनाध्यारोप्य सङ्केतविधाने सिद्धं स्वलक्षणस्याऽवाच्यत्वम् बुद्ध्यारोपितसादृश्यस्यैवाभिधानैरभिधानात् । वाच्यत्वे वा शब्दबुद्धेः स्पष्टप्रतिभासप्रसङ्गः, न चैवम् । न खलु यथेन्द्रियबुद्धिः स्पष्टप्रतिभासा प्रतिभासते तथा शब्दबुद्धिः । प्रयोगश्च यो यत्कृते प्रत्यये न प्रतिभासते न स १५ तस्यार्थः यथा रूपशब्दप्रभवप्रत्यये रसाप्रतिभासने नासौ तदर्थः, न प्रतिभासते च शाब्दप्रत्यये स्वलक्षणमिति । उक्तञ्च
२४
39
“अन्यथैवाग्निर्सम्बन्धाद्दहिं दग्धो हि मन्येते ।
अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ॥ १॥” [ वाक्यप० २२४२५ ]
२०
न चैकस्य वस्तुनो रूपहैंयमैस्ति, येनास्पष्टुं वस्तुगतमेव रूपं शब्दैरभिधीयेत एकस्य द्वित्वविरोधात् । तन्न स्वलक्षणे सङ्केतः ।
६ बसः ।
1
१ यो यो गोशब्दः स स मुण्डवाचक इति । २ व्यक्तिषु । ३ गोशब्दस्य । ४ सर्वव्यक्तयो गोशब्देन वाच्या इति आरोप्य । ५ जैनादिना । ७ बसः । ८ पदार्थानाम् । ९ सङ्केत । १० विनाशितया । ११ शाबलेयादिविशेषेषु । १२ अजातेषु । १३ उपाख्या स्वभाव: । १४ समयस्य । १५ अयमस्य शब्दस्य वाच्य इति । १६ त्रिकालत्रिलोकोदरवर्त्तिनाम् । १७ सदृशापरापरोत्पत्त्या यत्सादृश्यम् । १८ अभेदेन । १९ अङ्गीक्रियमाणे जैनादिना । २० शब्देन । २१ आरोपितसामान्यस्यैव वाच्यत्वं शब्देन यतः । २२ शब्दः जातायाः | २३ स्वलक्षणस्य । २४ उपर्युक्तसमर्थनम् । २५ नेत्रादि । २६ स्वलक्षणरूपोर्थः । २७ स्पष्टत्वेन । २८ यसः । २९ स्पर्शनेन्द्रियेण । ३० साक्षात् । ३१ ( नहि ) दाहमित्युक्ते मुख्यं दह्यते । ३२ पुमान् । ३३ अस्पष्टत्वेन । ३४ स्पष्टत्वा स्पष्टत्वे । ३५ युक्तिसिद्धम् । ३६ स्पष्टास्पष्टत्वलक्षणम् । ३७ रूपस्य । ३८ परमार्थभूतः
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org