________________
४४२
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० तदप्ययुक्तम्; शब्दाद्विशिष्टसङ्केतसव्यपेक्षाद्वाह्याथै प्रतिपत्तिप्रवृत्तिप्राप्तिप्रतीतेः स एवास्याओं युक्तः, न तु विकल्पप्रतिबिम्बकमात्र शब्दात्तस्य वाच्यतयाऽप्रतीतेः।
अतोऽयुक्तम्-"प्रतिबिम्बस्य मुख्यमन्यापोहत्वं विजातीयव्या५वृत्तखलक्षणस्यान्यव्यावृत्तेश्चौपचारिकम्" [ इति । अन्यापोहस्य हि वाच्यत्वे मुख्योपचारकल्पना युक्तिमती, तञ्चास्य नास्तीत्युक्तम् । ततः प्रतिनियताच्छब्दात्प्रतिनियतेऽर्थे प्राणिनां प्रवृत्तिदर्शनात्सिद्धं शब्दप्रत्ययानां वस्तुभूतार्थविषय
त्वम् । प्रयोगः-ये परस्परासंकीर्णप्रवृत्तयस्ते वस्तुभूतार्थविषयाः १० यथा श्रोत्रीदिप्रत्ययाः, परस्पराऽसङ्कीर्णप्रवृत्तयश्च दण्डीत्यादिशाब्दप्रत्यया इति । न चायमसिद्धो हेतुः, 'दण्डी विषाणी' इत्यादिधीध्वनी हि लोके द्रव्योपाधिको प्रसिद्धौ, “शुक्ल: कृष्णो भ्रमति चलति' इत्यादिकौतु गुणक्रियानिमित्तौ, 'गौरश्वः'
इत्यादी सामान्यविशेषोपाँधी, 'इहात्मनि ज्ञानम्' इत्यादिको १५ सम्बन्धोपाधिकावेवेति प्रतीतेः।
नेनु चाकृतसमया ध्वनयोर्थाभिधायकाः, कृतसमया वा? प्रथमपक्षेतिप्रसङ्गः। द्वितीयपक्षे तु व तेषां सङ्केतः-स्खलक्षणे, जातौ वा, तद्योगे वा, जातिमत्यर्थे वा, बुद्ध्यांकारे वा प्रकारान्त
रासम्भवात् ? न तावत्स्वलक्षणे; समयो हि व्यवहारार्थ क्रियमाणः २० सङ्केतव्यवहारकालव्यापके वस्तुनि युक्तो नान्यत्र । न च स्वल
क्षणस्य सङ्केतव्यवहारकालव्यापकत्वम्; शावलेयादिव्यक्तिविशेषाणां देशोदिभेदेन परस्परतोऽत्यन्तव्यावृत्ततयाऽन्वयाभावात्,
१ घटपटादिलक्षणे । २ अर्थतया । ३ सम्बन्धिन्याः । ४ तथा हि । ५ शब्देन । ६ किञ्चापोहावाच्योथेत्यादिना। ७ शब्दाथोंsपोहो विचार्यमाणो न घटते यतः । ८ परमार्थ । ९ बसः। १० असङ्कलित । ११ लोचनादिज्ञानानि । १२ द्वन्द्वः। १३ ध्वनिः शब्दः। १४ उपाधिः विशेषणं कारणमित्यर्थः। १५ धीध्वनी। १६ धीध्वनी । १७ गोत्वादि । १८ अश्वादेर्व्यावर्त्तमानत्वात्तदेव विशेषः । १९ धीध्वनी। २० संबन्धः-समवायः। २१ अत्र प्रतिविधीयते । इत्येतावतः प्राक् सौगतः पूर्वपक्षयति । २२ घटादिवाचकाः । २३ घटशब्दः पटाभिधायको भवतु सङ्केताभावात् । २४ सदृशपरिणामलक्षणे संकेतोस्ति । २५ बुद्धावकारे । २६ प्रतिबिम्बके। २७ क्षणिकादिरूपे। २८ प्रवृत्तिनिवृत्तिरूप । २९ स्थायिनि । ३० अव्यापके क्षणिके। ३१ आदिना खण्डमुण्डशवलादीनाम्। ३२ आदिना कालस्वरूपस्वभावाः । ३३ खण्डो मुण्डादत्यन्तव्यावृत्त इति सम्बन्धाभावात् । ३४ यो यत्रैव स तत्रैव यो यदैव तदैव सः। न देशकालयोाप्तिीवानामिह विद्यते ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org