________________
४४६
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० सानादिमत्यर्थेऽकृतसमयोऽश्वशब्दः, न भवन्ति च भावतः कृतसमयाः सर्वस्मिन्वस्तुनि सर्वे ध्वनयः' इत्यत्र प्रेयोगेऽसिद्धो हेतुः; उक्तप्रकारेणार्थे ध्वनीनां समयसम्भवात् ।
यच्च हिमाचलादिभावानामप्यनेकपरमाणुप्रचयात्मनां क्षणिक५त्वेन समयासम्भव इत्युक्तम् । तदप्युक्तिमात्रम् ; सर्वथा क्षणिकत्वस्य बाह्याध्यात्मिकार्थे प्रतिषेत्स्यमानत्वात् । तथा चोत्पन्नेष्वप्यर्थेषु सङ्केतसम्भवात् , अयुक्तमुक्तम्-'उत्पन्नेष्वनुत्पन्नेषु वा सङ्केता. सम्भवः' इत्यादि।
ननु शब्देनार्थस्याभिधेयंत्वे साक्षादेवातोर्थप्रतिपत्तेरिन्द्रिय१० संहतेर्वैफल्यप्रसङ्गः, तैन; अतोऽर्थस्याऽस्पष्टाकारतया प्रतिपत्ते,
स्पष्टाकारतया तत्प्रतिपत्त्यर्थमिन्द्रियसंहतिरप्युपपद्यते एवेति कथं तस्या वैफल्यम् ? स्पष्टाऽस्पष्टाकारतयार्थप्रतिभासमेदश्च सामग्रीमेदान विरुध्यते, दूरासन्नार्थोपनिबद्धेन्द्रियप्रतिभासवत् ।
अथाऽसत्यप्यर्थेऽतीतानागतादौ शब्दस्य प्रवृत्ति(त्ते) स्यार्था१५ भिधायकत्वम् । तदसत्; तस्येदानीमभावेपि वकाले भावात्,
अन्यथा प्रत्यक्षस्याप्यर्थविषयत्वाभावः स्यात् तद्विषयस्यापि तत्कालेऽभावात् । अविसंवादस्तु प्रमाणान्तरप्रवृत्तिलक्षणोऽध्यक्षवच्छोदेप्यनुभूयत एव । 'ऑसीद्वैह्निः' इत्याद्यतीतविषये वाक्ये विशिष्टभस्मादिकार्यदर्शनोद्भूतानुमानेन संवादोपलब्धेः, चन्द्रार्क२० ग्रहणाद्योंगतार्थविषये तु प्रत्यक्षप्रमाणेनैव । कँचिद्विसंवादात्सर्वत्र शाब्दस्याऽप्रामाण्ये प्रत्यक्षस्यापि क्वचिद्विसंवादात्सर्वत्राप्रामाण्यप्रसङ्गः। ततो निराकृतमेतत्
"अन्यदेवेन्द्रियग्रार्थीमन्यच्छब्दस्य गोचरः।
१ सास्लादिमदर्थाभिधायको न भवति यतः। २ परकृते। ३ भावतोऽकृतसमयत्वादिति । ४ समानपरिणामापेक्षयेत्यादिना। ५ परेण । ६ घटादौ। ७ शानादौ। ८ परेण । ९ प्रतिपाद्यत्वे । १० अव्यवधानेन। ११ श्रूयमाणाच्छब्दात् । १२ चक्षुरादिसमूहस्य । १३ सूक्तम् । १४ विवक्षिताच्छब्दात् । १५ घटते। १६ एकार्थ। १७ एकार्थस्य। १८ स्पष्टाऽस्पष्टतया। १९ एकार्थस्य । २० शब्दो. च्चारणसमये। २१ अर्थस्यानभिधायकत्वे । २२ क्षणिकत्वात् । २३ प्रत्यक्षोत्पत्तिकाले इव । २४ ज्ञाने। २५ कथम् । २६ इह प्रदेशे। २७ किञ्चिदुष्णताकाठाथाकारधारित्वविशिष्ट। २८ भविष्यत् । २९ वाच्ये। ३० शब्दप्रतिपाये। ३१ भथें। ३२ अङ्गीक्रियमाणे परेण । ३३ अमिन्नविषयत्वेपि शाब्दप्रत्यक्षयोः प्रतिभासभेदो
दर्शितो यतः। ३४ स्वलक्षणम् । ३५ सामान्यम् । Jain Educationa International For Personal and Private Use Only
www.jainelibrary.org