________________
सू० ३।१०१]
४४५
तथाभूतश्चार्थो वास्तवः सङ्केतव्यवहारकालव्यापकत्वेन प्रमाणसिद्धः 'सामान्यविशेषात्मा तदर्थः ' [ परीक्षामु० ४।१] इत्यत्रातिविस्तरेण वर्णयिष्यते । सामान्यविशेषयोर्वस्तुभूतयोस्तत्सम्बन्धस्य चात्र प्रमाणतः प्रसाधयिष्यमाणत्वात् । न चात्राप्यानन्त्याद्व्यक्त्तीनां पैरस्पराननुगमाच्च सङ्केताऽसम्भवः समान- ५ परिणामापेक्षया क्षयोपशमविशेषाविर्भूतोहाख्यप्रमाणेन तासां प्रतिभासमानतया सङ्केतविषयतोपपत्तेः कथमन्यथानुमानप्रवृत्तिः तंत्राप्यानन्त्यानंनुगमरूपतया साध्यसाधनव्यक्तीनां सम्बन्धग्रहणासम्भवात् ?
अपोहवादः
"
अन्यव्यावृत्त्या सम्बन्धग्रहणम् ; इत्यप्यसत्; तस्या एव सेंदृशप- १० रिणामसामान्यासम्भवे असम्भाव्यमानत्वात् । न चाऽसदृशेष्वप्य थेषु सामान्यविकल्पजनकेषु तद्दर्शनद्वारेण सदृशव्यवहारे हेतुत्वम्; नीलादिविशेषाणामप्यभावानुषङ्गात् । यथा हि परमार्थतोऽसईशा अपि तथाभूतविकल्पोत्पादक दर्शन हेतवः सदृशव्यवहारभौजो भावाः तथा स्वयमनीला दिखभावा अपि नीलादिविकल्पोत्पाद- १५ कदर्शननिमित्ततया नीलादिव्यवहारभाक्त्वं प्रतिपत्स्यन्ते । -
परिणामभावे च अर्थानां सजातीयेतैरेव्यवस्थाऽसम्भावात्कुतः कस्य व्यावृत्तिः ? अन्यव्यावृत्त्या सम्बन्धवगमेपि चैतत्सर्व समनम् - तंत्रानन्त्याननुगमरूपत्वस्याऽविशेषात् । ततो 'ये यंत्र भवतः : कृतसमया न भवन्ति न ते तस्याभिधायकाः यथा २०
Jain Educationa International
९ कुतः ।
१ सङ्केतितार्थो नास्तीत्युक्ते आह । २ सूत्रे । ३ जैनाचार्यैः । ४ प्रत्यक्षादितः । ५ व्यवहारकाले । ६ अस्य शब्दस्यायमर्ध इत्येवंरीत्या | ७ सदृश । ८ ये ये त्रिकालत्रिलोकोदरवर्तिनः सास्त्रादिमन्तस्ते ते गोशब्देन वाच्या इत्येवम् । १० अनुमानव्यवहारकाले । ११ परस्पर । १२ असाध्यासाधनरूपेण । १३ अविनाभावलक्षण | १४ या गोव्यक्तयस्ता गोशब्देन वाच्या इति । १५ पूर्वं निराकृतत्वात् । १६ खण्डादिषु । १७ सामान्यरूपश्चासौ विकल्पश्च । १८ अयमनेन सदृश इति विकल्पोयं गौरयं गौर्वेति विकल्पः । १९ विसदृशार्थ । २० प्रतीति । २१ मुखेन । २२ कथम् ? तथा हि । २३ खण्डमुण्डादयः पदार्थाः । २४ सन्तः । २५ स्युः ॥ २६ स्वरूपेण । २७ नीललक्षणभावाः । २८ विकल्पः = ज्ञानम् । २९ सामान्य | ३० सास्नादिमत्त्वादिना । ३१ गोघटपटादीनाम् । ३२ विजातीय । ३३ कस्मात् । ३४ साध्यसाधनव्यक्तीनाम् । ३५ किञ्च । ३६ सङ्केतपक्षे यत्परेणोच्यते । ३७ अन्यव्यावृत्तिविषयकम् । ३८ अन्यव्यावृत्तयोऽनन्ता इत्येवम् । ३९ व्यावृत्तिग्रहकाले । ४० साध्यसाधनव्यक्तीनां सम्बन्धावगमो यथा वस्तुनि शब्दस्य सङ्केत परिज्ञानमपि तथा स्याद्यतः । ४१ वस्तुनि । ४२ परमार्थतः ।
प्र० क० मा० ३८
For Personal and Private Use Only
www.jainelibrary.org