________________
४३४
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० वस्तुंन्येव संस्पृ(संस)ष्टत्वैकत्वनानात्वादिविकल्पानां प्रतीतेः । भेदाभ्युपगमे वा अर्भावस्य वस्तुरूंपतापत्तिः, तथाहि-ये परस्परं भियन्ते ते वस्तुरूपा यथा स्खलक्षणानि, परस्परं भिद्यन्ते चाऽपोहा इति। ५ न चापोहाँलक्षणसम्बन्धिभेदादपोहीनां भेदः, प्रमेयाभिधेयादिशब्दानामप्रवृत्तिप्रसङ्गात्, तदभिधेयापोहानामपोहालक्षणेसम्बन्धिभेदाभांवतो भेदासम्भवात् । अत्र हि यत्किञ्चिद्व्यवच्छेत्वेन कल्प्यते तत्सर्व व्यवच्छेद्योंकारेणालम्ब्यानं प्रमेयादिखभा.
वमेवावतिष्ठते । न ह्याविषयीकृतं व्यवच्छेच्तुं शक्यमतिप्रसङ्गीत् । १०न च सम्बन्धिभेदो भेदकः, अन्यथा बहुषु शावलेयादिव्यक्तिष्वे
कस्याऽगोपोहस्याऽर्भावप्रसङ्गः। यस्य चान्तरङ्गाः शावलेयादि. व्यक्तिविशेषा न भेदकाः 'तस्याऽश्वादयो भेदकाः' इत्यतिसाहसम् ! सम्बन्धिभेदाच्च वस्तुन्यपि भेदो नोपलभ्यते किमुता
ऽवस्तुनि; तथाहि-देवदत्तादिकमेकमेव वस्तु युगपत्क्रमेण वाने१५कैराभरणादिभिरभिसम्बद्ध्यमानमनासादितभेदमेवोपलभ्यते।
भवतु वा सम्बन्धिभेदोद्भेदः, तथापि-वस्तुभूतसौमान्यानभ्युपगमे भवतां सँ एवापोहाश्रयः सम्बन्धी न सिद्धिमासादयति यस्य भेदात्तद्भेदः स्यात् । तथाहि-गादीनां यदि वस्तुभूतं सौप्य प्रसिद्धं भवेत्तदावाद्यपोहाश्रयत्वमविशेषेणैषां प्रसिद्ध्येन्नान्यथा। २० अतोऽपोहविषयत्वमेषामिच्छताऽवश्यं सारूप्यमङ्गीकर्तव्यम् । तदेव च सामान्यं वस्तुभूतं भविष्यतीत्यपोहकल्पना वृथैव ।
१ न तुच्छरूपाभावे । २ अन्ये सम्बद्धत्व । ३ आदिना प्रमेयत्वादि । ४ भेदानाम् । ५ सौगतैः। ६ अपोहस्य । ७ तल्लक्षणत्वाद्वस्तुत्वस्य । ८ कथम् । ९ अश्वादिनिवृत्तयः। १० अपोह्या व्याव| अश्वादयः। ११ अभावानाम् । १२ अन्यथा। १३ अप्रमेयादि । १४ स्वरूप। १५ स्वरूपेण नास्ति यतः। १६ प्रमेयादिशब्देषु । १७ अप्रमेयादि । १८ व्यावय॑त्वेन । १९ व्यावाकारण। २० विषयीक्रियमाणम् । २१ वर्तते। २२ व्यवच्छेद्यमप्रमेयादि । २३ परिच्छेत्तुम् । २४ गगनकुसुममपि परिच्छेत्तुं शक्यं स्यात् । २५ अपोहानाम् । २६ किन्तु प्रतिव्यक्ति भिन्न एव स्यात् । २७ अव्यभिचारि प्रतिनियतमन्तरङ्गम् । २८ अपोहे। २९ कटककुण्डलादिभिः । ३० सम्बन्धिभिः। ३१ अपोहस्य । ३२ परमार्थसत्य । ३३ गोत्वादि । ३४ विवक्षितः। ३५ सन् । ३६ सम्बन्धिनः। ३७ अपोहस्य । ३८ अर्थानाम् । ३९ सदृशरूपम् । ४० शावलेयादिषु। ४१ सामान्यम् । ४२ गोत्वादि। ४३ साधारणेन । ४४ सारूप्याभावे । ४५ सामान्यानभ्युपगमे विवक्षितोऽपोहाश्रयः सम्बन्धी न सिध्यति यतः। ४६ सौगतेन । ४७ नियमेन ।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org