________________
सू० ३।१०१] अपोहवादः
४३७ • नास्माकमनीलादिव्यावृत्त्या विशिष्टोऽनुत्पलादिव्यवच्छेदोऽभिमतो यतोयं दोषः स्यात् । किं तर्हि ? अनीलानुत्पलाभ्यां व्यावृत्तं वस्त्वेव तथा व्यवस्थितम् । तच्चार्थान्तरव्यावृत्त्या विशिष्टं शब्देनोच्यते; इत्यप्यपेशलम् ; स्खलक्षणस्याऽवाच्यत्वात् । न च खलक्षणस्य व्यावृत्त्या विशिष्टत्वं सिद्ध्यति; यतो न वस्त्व-५ पोहोऽसाधारणं तु वस्तु, न च वस्त्वऽवस्तुनोः सम्बन्धो युक्तः, वस्तुद्वयाधारत्वात्तस्य ।
अस्तु वा सम्बन्धः, तथापि विशेषणत्वमपोहस्याऽयुक्तम् , न हि सत्तामात्रेण किञ्चिद्विशेषणम् । किं तर्हि ? ज्ञातं सद्यत्वाकारानुरक्तया बुद्ध्या विशेष्यं रञ्जयति तद्विशेषणम् । न चापो-१० हेऽयं प्रकारः सम्भवैति । न ह्यश्वादिबुद्ध्यापोहोऽध्यवसीयते । किं तर्हि ? वस्त्वेव । अपोहज्ञानासम्भवश्चोक्तः प्राक । न चाज्ञातोप्यपोहो विशेषणं भवति । "नागृहीतविशेषणा विशेष्ये बुद्धिः" [ ] इत्यभिधानात् ।
अस्तु वाऽपोहज्ञापनम् , (ज्ञानम् ;) तथापि-अर्थ तदाकारबु-१५ ध्यभावात्तस्याऽविशेषणत्वम् । सर्वे हि विशेषणं खाकारानुरूपा विशेष्ये बुद्धिं जनयदृष्टम् , न त्वन्यादृशं विशेषणमन्याहशीं बुद्धिं विशेष्ये जनयति । न खलु नीलमुत्पले 'रक्तम्' इति प्रत्यय. मुत्पादयति, दण्डो वा 'कुण्डली' इति । न चाश्वादिष्भावानुरक्ता शाब्दी बुद्धिरुपजायते । किन्तर्हि ? भौवाकाराध्यवसा-२० यिनी । तथापि विशेषणत्वे सर्व सर्वस्य विशेषणं स्यात् । अनु
१ भवतामयं प्रसङ्ग इत्युक्ते सत्याह । २ जैनानाम् । ३ रक्तादि । ४ विशेषणेन । ५ अपमादि । ६ विशेष्यः । ७ न कुतोपि । ८ नीलोत्पलरूपेण । ९ इति जैनः । १. अर्थः स्वलक्षणरूपः। ११ अनीलाऽनुत्पलरूप। १२ इति सौगतः। १३ कुतः। १४ यद्वस्तु तत्स्वलक्षणमेवेति शब्देन। १५ सौगतमते । १६ अन्यव्यावृत्तिरूपं तु सामान्यमेव । १७ अपोहोस्तीत्यस्तित्वमात्रेण। १८ लोके। १९ उत्पलम् । २० स्यात्। २१ अशातत्वादपोहस्य । २२ न तावत्प्रत्यक्षेणापोहग्रहणमित्यादिः। २३ स्वलक्षणरूपे । २४ स्थिरस्थूलाकारः स्वलक्षणोस्तीति ज्ञायते न स्वभावरूपापोहाकारः। २५ सतीं सदृशीम् । २६ अभावरूपम् । २७ भावरूपाम् । २८ कथम् । २९ पुरुषस्थः। ३० स्वलक्षणरूपेषु । ३१ अपोहासक्ता। ३२ शब्दजनिता सविकल्पेत्यर्थः । बौद्धानां मते निर्विकल्पकज्ञानानन्तरोत्पन्नसविकल्पकशानेन स्वलक्षणस्य निश्चयो यतः । ३३ स्थिरस्थूलाकार पदार्थाकार । ३४ स्वाकारानुरूपबुद्ध्यजनकत्वेपि । ३५ अपोहस्य । ३६ स्वाकारानुरूपबुद्ध्यजनकत्वाविशेषात् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org