________________
४३८
प्रमेयकमलमार्तण्डे [३. परोक्षपरि० रागे वा अभावरूपेण वैस्तुनःप्रतीतेर्वस्तुत्वमेव न स्यात् , भावाभावयोर्विरोधात् । शब्देनाऽगम्यमानत्वाच्चाऽसाधारणवस्तुनो न व्यावृत्या विशिष्टत्वं प्रत्येतुं शक्यम् । उक्तञ्च
"न चासाधारणं वस्तु गम्यतेपोहवत्तया। कथं वा परिकल्प्येत सम्बन्धो वस्त्ववस्तुनोः ॥ १॥ वरूपसत्त्वमात्रेण न स्यात्किञ्चिद्विशेषणम् । खबुद्ध्या रज्यते येन विशेष्यं तद्विशेषणम् ॥२॥ न चाप्यश्वादिशब्देभ्यो जायतेपोहभासनम् । विशेष्ये बुद्धिरिटेहे न चाज्ञातविशेषणा ॥ ३॥ न चान्यरूपमन्यादृक् कुर्याज्ज्ञानं विशेषणम् । कथं वाऽन्यादृशे ज्ञाने तंदुच्येत विशेषणम् ॥ ४॥ अथान्यथा विशेष्येपि स्याद्विशेषणकल्पना। तथा सति हि यत्किञ्चित्प्रसज्येत विशेषणम् ॥ ५॥ अभावगम्यरूपे च न विशेष्यस्ति वस्तुता। विशेषितमपोहेन वस्तु वाच्यं न तेऽस्त्यतः॥६॥"
[मी० श्लो० अपोह० श्लो०८६-९१] "शब्देनागम्यमानं च विशेष्य मिति साहसम् । तेन सामान्यमेष्टव्यं विषयो बुद्धिशब्दयोः॥"
[मी० श्लो० अपोह० श्लो० ९४] २० इतश्च सामान्यं वस्तुभूतं शब्दविषयः, यतो व्यक्तीनामसाधारणवस्तुरूपाणामशब्दवाच्यत्वान्न व्यक्तीनामपोह्येत, अनुक्तस्य
१ अश्वादिषु शब्दजबुद्धेरभावेन सहानुरागे सति । २ यदा भावाकारो धृतस्तदाऽभावरूपमेव स्खलक्षणं निश्चिनुयादिति भावः। ३ स्खलक्षणस्य । ४ कुतः । ५ स्वलक्षणस्य । ६ अपोहेन । ७ अर्थान्तरव्यावृत्त्या विशिष्टं स्वलक्षणरूपं वस्तु शब्देनोच्यत इति वदन्तं वादिनं प्रति समर्थनमुक्तमिति ज्ञेयम् । ८ अपोइस्य । ९ कथं तहिं विशेषणं स्यादित्युक्ते आह । १० स्वस्य=विशेषणस्य । ११ प्रतीतिः । १२ जगति । १३ अभावरूपम् । १४ भावरूपम् । १५ विशेष्ये । १६ जैनानामिदं दूषणं न जायते तेषां सर्व वस्तु भावाभावात्मकं यतः । १७ भावरूपे । १८ अभावरूपे । १९ परेण । २० यदि । २१ भावरूपे । २२ अपोहस्य । २३ अनिर्वचनीयम् । २४ स्खलक्षणरूपे । २५ विशेषणेन । २६ स्वलक्षणरूपम् । २७ शब्देन । २८ सौगतस्य । २९ अपोहस्य विशेषणस्य । ३० स्वलक्षणम् । ३१ येन कारणे. नापोहशब्दयोर्वाच्यवाचकभावो नास्ति तेन। ३२ शब्दजनितबुध्या गम्यः शब्देन वाच्यश्च । ३३ गोत्वादि। ३४ स्वलक्षणस्यावाच्यत्वं कुतः? सङ्केताभावात् । ३५ शब्देनावाच्यस्य ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org