________________
४२६
प्रमेयकमलमार्त्तण्डे
[ ३. परोक्षपरि०
प्रवृत्तिर्नास्ति तथा चक्षुरप्राप्यकारित्वप्रघट्टके प्रतिपादितम् । इत्यलमतिविस्तरेण ।
यच्चान्यदुक्तम्- 'देशभेदेन भिन्नत्वम्' इत्यादिः तद्भ्यसारम् ; यतो यदि प्रत्यक्षमेवानुमानस्य बाधकं नानुमानं प्रत्यक्षस्यः तर्हि ५ चन्द्रार्का स्थैर्याध्यक्षं देशादेशान्तरप्राप्तिलिङ्गजनितगत्यनुमानेन बाध्यं न स्यात् । अथास्य प्रत्यक्षरूपतैव नास्ति बाधितविषयत्वात्; तत्प्रकृतेपि समानम्, लूनपुनर्जातनखकेशादिवत्सादृश्यप्रतीत्या तैन्नानात्वप्रसाधकानुमानेन चाऽत्राप्येकत्वप्रतीतेर्बाधितविषयत्वाऽविशेषात् । अतोऽयुक्तमेतत्
१०
" स एवेति मतिर्नापि सादृश्यं न च तत्कंचित् । विनावयव सामान्यैर्वर्णेष्ववयवी न च ॥”
[मी० लो० स्फोटवा० लो० १८] इति ।
अवयव सामान्यस्याप्यत्रात एव प्रसिद्धेः । तेनायुक्तमुक्तम्'पर्यायेण' इत्यादि; देवदत्ते हि 'स एवायम्' इति प्रत्ययः, अत्र १५ तु ' तेनानेन चीयं सदृशः' इति । न च सदृशप्रत्ययादेकत्वम् ; गोगवययोरपि तत्प्रसङ्गात् । यद्यप्युच्यते
२५
"जैन कपिल निर्दिष्टं शब्दश्रोत्रादिसर्पणम् । सौंधीयोऽस्मात्तदप्यत्र युक्तया नैवावतिष्ठते ॥ १॥” [ मी० श्लो० शब्दनि० लो० १०६ ]
२० जैनेन हि निर्दिष्टं श्रोतारं प्रति शब्दस्य सर्पणं कापिलेन तु वक्तारम् । श्रोत्रदेर्यत्तदेव साधीयोऽस्मान्नैयायिको पकल्पितात् । वीचीतेरेङ्गन्यायेन शब्दस्यामूर्त्तस्यागमनात् । तदप्यत्र युक्त्या नैवावतिष्ठते । यस्मात् -
" शब्दस्यागमनं तावदेदृष्टं परिकल्पितम् । मूर्त्तिस्पर्शादिमत्त्वं च तेषामभिभवः सताम् ॥ १ ॥
९ चक्षूरश्मीनां विषयं प्रति गमननिराकरणेन । २ बाधकम् । ३ ग्राहि । ४ स्थैर्यलक्षणस्य । ५ गकारे । ६ कथम् । ७ गकार । ८ गकारे । ९ सादृश्यप्रतीत्यैकत्वप्रतीतेर्बाधितविषयत्वं यतः । १० स एवायं गकारादिः । ११ गकारादौ । १२ वर्णानां निरंशत्वात् । १३ अंशाः । १४ तेन सदृशोयं गकारः । १५ वर्णेन । १६ वर्णः । १७ अन्यथा | १८ मीमांसकेन । १९ साङ्ख्य । २० श्रेयः । २१ अग्रे वक्ष्यमाणात् । २२ जगति वर्णेषु वा । २३ मीमांसकस्य । २४ गमनम् । २५ लहरी | २६ कुतः । २७ प्रत्यक्षादिप्रमाणेनाप्रातीतिकम् ।
२८ कुड्यादिना
तिरोभावः ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org